वणिगधिपते किञ्चिद् ब्रूमस् त्रपाम् इह मा कृथाः
कथम् अनिभृतं केयं रीतिः पुरे तव सम्प्रति ।
मरकतमणिः काचो वायं भवेद् इति संशये
लवणवणिजां यद् व्यापारः परीक्षित्म् अर्पितः ॥१७२१॥
नारायणाब्धेः ।
इह परिचिता जात्यन्धानाम् इयं न तवोन्नतिर्
गुणपरिचये चक्षुष्मन्तो त्वयातिविडम्बिताः ।
कृपणवणिजाम् अल्पीकर्तुं गुणांस् तव केवलं
मरकत मृषा दोषोद्गारः करिष्यति दुर्यशः ॥१७२२॥
जलचन्द्रस्य ।
त्यज निजगुणाभिमानं
मरकत पतितोऽसि मत्सरे वणिजि ।
काचमणेर् अपि मूल्यं
यल् लभसे तद् अपि ते श्रेयः ॥१७२३॥
कस्यचित् । (शा।प। ११०४)
दुरर्थैर् यत् काचभ्रमभवकलङ्कस् त्वयि कृतो
जगच्चूडाचुम्बिन् मरकत स कस् ते परिभवः ।
यद् अस्माभिस् तूष्णीं स्थितम् इह तवालोचनपथे
तदन्तर्दुष्पूरोदरभरणदैन्यव्यवसितम् ॥१७२४॥
वल्लणस्य ।
केनासीनः सुखम् अकरुणेनादराद् उद्धृतस् त्वं
विक्रेतुं वा कथम् उपनतः केन देशान्तरेऽस्मिन् ।
अस्मिन् वित्तव्ययभरसहो ग्राहकस् तावद् आस्तां
नास्ति भ्रातर् मरकतमणे त्वत्परीक्षाक्षमोऽपि ॥१७२५॥
मङ्गलस्य । (शा।प। १११०, सू।मु। २८।११, सु।र। १०२३)