कनकभूषणसङ्ग्रहणोचितो
यदि मणिस् त्रपुणि प्रतिरुध्यते ।
न स विरौति न चापि पलायते
भवति योजयितुर् वचनीयता ॥१७१६॥
अचलस्य । (स्व् ८९८, सु।र। १६७२)
अपि वज्रेण सङ्घर्षम् अपि पद्भ्यां पराभवम् ।
सहन्ते गुणलोभेन त एव मणयो यदि ॥१७१७॥
वाचस्पतेः । (सु।र। १४८५)
समुद्रेणान्तस्थस् तटभुवि तरङ्गैर् अकरुणैः
समुत्क्षिप्तोऽस्मीति त्वम् इह परितापं त्यज मणे ।
अवश्यं कोऽपि त्वद्गुणपरिचयाकृष्टहृदयो
नरेन्द्रस् त्वां कुर्यान् मुकुटमकरीचुम्बितरुचिम् ॥१७१८॥
कस्यचित् । (सु।र। १०७३)
न त्याज्या जनिभूमिर् इत्य् अलम् इह भ्रातर् मणीनां गणैर्
यैर् एवायम् अकारि वारिधिर् अधो गत्वापि रत्नाकरः ।
नैषाम् अत्र गुणग्रहो न गरिमख्यातिर् न वाघक्रमो
जातास् ते पुनर् अन्यतः क्षितिभृतां मूर्धानम् अध्यासते ॥१७१९॥
तिलचन्द्रस्य ।
उपादाता यावन् न भवति भवादृग्गुणवताम्
असत्कल्पास् तावत् त्रिभुवनम् अहार्हा अपि गुणाः ।
अपि प्राग्दैत्यारेर् हृदयवसतेः कौस्तुभमणिः
स किं नासीद् अब्धौ श्रुतिर् अपि किम् अस्य क्वचिद् अभूत् ॥१७२०॥
धर्माधिकरणिकरुद्रस्य ।