०१५ शङ्खः

रत्नाकराज् जनिर् अनुष्णकरावदाता
कान्तिः स्वभावकुटिलं कठिनं च वक्षः ।
शङ्खस्य दक्षिणगतेर् महनीयताभूद्
वामात्मनस् तद् अपि च क्रकचप्रहारः ॥१७११॥

कस्यचित् ।

विदितधवलिमासि श्रूयमाणो ध्वनिस् ते
रमयति रमणीया जन्मभूः सिन्धुराजः ।
तद् अपि निभृतम् एकं वाच्यम् अस्त्य् एव कम्बो
हृदयकुटिलिमानं कस् तवापह्नवीति ॥१७१२॥

नीलस्य ।

शङ्खाः सन्ति सहस्रशो जलनिधेर् वीचिच्छटाघट्टिताः
पर्यन्तेषु लुठन्ति ये दलशतैः कल्माषितक्ष्मातलाः ।
एकः कोऽपि स पाञ्चजन्य उदभूद् आश्चर्यभूतः सतां
यः संवर्तभरक्षमैर् मधुरिपोः श्वासानिलैः पूर्यते ॥१७१३॥

कविरत्नस्य । (स्व् ९१७, शा।प। १११९, सू।मु। २९।७)

सम्भूताश् च भवन्ति च प्रतिपदं भूयो भविष्यन्ति च
प्रायः कम्बुनिधेर् न कुक्षिकुहरे सङ्ख्यातिगाः कम्बयः ।
एकोऽप्य् अत्र स तादृशः किम् अभवत् कः पाञ्चजन्याद् ऋते
यन्नादेन भवन्त्य् अमूर् भयगलद्भ्रूणाः सुरारिस्त्रियः ॥१७१४॥

गोसोकस्य ।

सिन्धोर् उच्चैः पवनचलनाद् उच्छलद्भिस् तरङ्गैस्
तीरं नीतो हृतविधिवशाद् दक्षिणावर्तशङ्खः ।
दग्धः किं वा भवति न मसी वेति सन्देहिनीभिः
शाम्बूकाभिः सह परिचर्यान् नीयते पामरीभिः ॥१७१५॥

अनुरागदेवस्य । (सु।र। १११८, सुचरितस्य)