०१३ अगस्त्यः

श्वासोन्मूलितमेरुर् अम्बरतलव्यापी निमज्जन् मुहुर्
यत्रासीच् छुमारविभ्रमकरः क्रीडावराहो हरिः ।
वीचीव्याप्तदिगन्तरः स हि तथा वारां पतिः पीयते
पीतः सोऽपि न पूरितं च जठरं तस्मै नमोऽगस्तये ॥१७०१॥

शब्दार्णववाचस्पतेः ॥ (सु।र। १२०१)

किं ब्रूमो हरिम् अस्य विश्वम् उदरे किं वा फणां भोगिनः
शेते यत्र हरिः स्वयं जलनिधेः सोऽप्य् एकदेशे स्थितः ।
आश्चर्यं कलसोद्भवो मुनिर् अयं यस्यैकहस्तोदरे
गण्डूषीयति पङ्कजीयति फणी भृङ्गीयति श्रीपतिः ॥१७०२॥

कस्यचित् । (शा।प। ४०२५, सू।मु। १०९।४९, सु।र। १२०९)

आज्ञाम् एव मुनेर् प्रणम्य शिरसा विन्ध्याचल स्थीयताम्
अत्युच्चैः पदम् इच्छता पुनर् इयं नो लङ्घनीया त्वया ।
मैनाकादिमहीध्रलब्धवसतिं यः पीतवान् अम्बुधिं
तस्य त्वां गिलतः कपोलफलके क्लेशोऽपि किं जायते ॥१७०३॥

शालूकस्य । (सु।र। ११२३)

निद्रालुर् न हरिः स्मृतो न गणितो दग्धव्यविश्वः शिखी
तास् ता लीढविहायसः किम् अपरं नालोचिता वीचयः ।
सद्यः सम्मिलिताङ्गुलित्रयपुटे क्षीणोदरेण व्रतैश्
चित्रं नः श्रुतिविभ्रमो नु मुनिना पीतः स पाथोनिधिः ॥१७०४॥

कस्यचित् ।

आस्तां चक्षुर् इदं तिरोऽञ्चति कियच् चेतोऽपि यद् वैभवैर्
निष्प्रत्याशमयं मुने जलनिधिर् गण्डूषितः सत्तपः ।
एतेनैव विरन्तुम् अर्हसि न ते गण्डूषपानाधिका
काचित् ख्यातिर् अतःपरं परम् असौ पर्जन्यनीवीव्ययः ॥१७०५॥

तैलपाटीयगङ्गोकस्य ।