लोला श्रीः शशभृत्कलङ्कमलिनः क्रूरो मणिग्रामणीर्
माद्यत्य् अभ्रम् उ वल्लभोऽपि सततं तत् कालकूटं विषम् ।
इत्य् अन्तःस्वकुटुम्बदुर्नयपरामर्शाग्निना दह्यते
गाढं वाडवनामधेयदहनव्याजेन वारां निधिः ॥१६९६॥
वाणीकुटिललक्ष्मीधरस्य । (सु।र। १०४५)
विस्तारो यदि नेदृशो न यदि तद्गाम्भीर्यम् अम्भोनिधेर्
न स्याद् वा यदि सर्वसत्त्वविषयस् तादृग्दयानुग्रहः ।
अन्तः प्रज्वलता पयांसि दहता ज्वालावलीं मुञ्चता
के न स्युर् वडवानलेन बलिना भस्मावशेषीकृताः ॥१६९७॥
केशटस्य । (सू।मु। २७।१७, सु।र। १२१०)
धिग् वाडवं दहनम् अर्थितया विपक्षम्
अभ्येति यः स्वजठरप्रतिपूरणाय ।
धिग् वारिराशिम् अपि यो हि तथाविधस्य
शत्रोर् जलैर् अपि न पूरयतेऽभिलाषम् ॥१६९८॥
तस्यैव । (स्व् ९७८)
आश्चर्यं वडवानलः स भगवान् आश्चर्यम् अम्भोनिधिर्
यत्कार्यातिशयं विचिन्त्य हृदये कम्पः समुत्पद्यते ।
एकस्याश्रयघस्मरस्य पिबतस् तृप्तिर् न जाता जलैर्
अन्यस्यापि महात्मनो न वपुषि स्वल्पोऽपि तोयव्ययः ॥१६९९॥
तस्यैव । (स्व् ८८४, सु।र। ११९८)
अयम् अलघुविसारिस्फारिजिह्वाकलापो
ज्वलति यदि न मध्ये वाडवो हव्यवाहः ।
मुहुर् उपचितसारो वारिभिर् निम्नगानां
त्रिभुवनम् अपि किं न प्लावयत्य् अम्बुराशिः ॥१७००॥
धर्मपालस्य ।