०११ समुद्रनिन्दा

ग्रावाणो मणयो हरिर् जलचरो लक्ष्मीः पयोमानुषी
मुक्तौघाः सिकताः प्रवाललतिकाः शैवालम् अम्भ सुधा ।
तीरे कल्पमहीरुहः किम् अपरं सर्वत्र नामाम्बुधेर्
दूरात् कर्णरसायनं निकटतस् तृष्णापि नो शाम्यति ॥१६९१॥

कस्यचित् । (स्व् ८६४, शा।प। १०८४, सू।मु। १०४।१)

उपाध्वं तत् पान्थाः पुनर् अपि सरो मार्गतिलकं
यद् आसाद्य स्वेच्छं विहरथ विनीतक्लमभराः ।
इतस् तु क्षाराब्धेर् जरठमकरक्षुण्णपयसो
निवृत्तिः कल्याणी न पुनर् अवतारः कथम् अपि ॥१६९२॥

पापाकस्य । (स।क।आ। ४।९७, सू।मु। ३१।१२, सु।र। १०६९)

यद् वीचीभिः स्पृशसि गगनं यच् च पातालमूलं
रत्नैर् उद्दीपयसि पयसा यत् पिधत्से धरित्रीम् ।
धिक् तत् सर्वं तव जलनिधे यद् विमुच्याश्रुधारास्
तीरे नीरग्रहणविमुखैर् अध्वगैर् उज्झितोऽसि ॥१६९३॥

शुभाङ्करस्य । (शा।प। १०९०, सू।मु। २७।१४, सु।र। १०४४)

कस्त्वं, कोऽपि, कुतोऽसि, रत्नवसतेस् तीराद् अहं नीरधेर्
लब्धं किञ्चन, गर्जितैर् बधिरता दृग्व्याहतिः सैकतैः ।
मा खेदं कुरु तादृग् और्वदहनज्वालावलीदुःसहं
क्षारोदं यद् उपास्य जीवसि सखे श्लाघ्यं न तन् मन्यसे ॥१६९४॥

कस्यचित् ।

धिग् उद्गाम्भीर्यं धिग् अमृतमयत्वं च जलधेर्
धिग् एतद् द्राघीयःपृथुलतरकल्लोलभुजताम् ।
यद् एतस्यैवाग्रे कवलिततनुर् दावदहनैर्
न तीरारण्यानी सलिलचुलुकेनाप्य् उपकृता ॥१६९५॥

कपालेश्वरस्य । (सु।र। ११०८)