०१० समुद्रोपालम्भः

दूरीभूतरतिश् चिरं मरकते मुक्तासु मुक्तस्पृहः
सानन्दोऽस्मि न चेन्द्रनीलमणिषु त्यक्तादरो विद्रुमे ।
त्वां संसेव्य समुद्र सम्प्रति पुनर् दृष्टस्वभाग्यक्षय
क्षीणोऽहं सकलार्थिसार्थसुलभाम् अभ्यर्थये शुक्तिकाम् ॥१६८६॥

इन्द्रदेवस्य ।

प्रमोदाद् उद्बाष्पः पुलकपटलैर् अर्चिततनुः
शिरो धूत्वा धूत्वा किम् इति जलधेर् गायसि यशः ।
किम् एतेनास्माकं फणिमकरनक्रप्रणयिना
नमस् तेभ्यो लभ्या य इह गुणभाजोऽपि मणयः ॥१६८७॥

वैद्यगदाधरस्य ।

विगर्जाम् उन्मुञ्च त्यज तरलताम् अर्णव मनाग्
अहम्भावः कोऽयं कतिपयमणिग्रावगुडकैः ।
दृशं मेरौ दद्याः स हि मणिमयप्रस्थमहितो
महामौनः स्थैर्याद् अथ भुवनम् एव द्रढयति ॥१६८८॥

शतानन्दस्य । (सु।र। ११२२)

अजायन्तैतस्माद् अमृतशशिलक्ष्मीप्रभृतयः
परित्राताश् चेन्द्रात् कुलशिखरिणः पूर्वयमुना ।
उपेता इत्य् एवं तव जलनिधे तीरम् अधुना
विगर्जाभिः किं नः श्रुतिपुटम् अहो जर्जरयसि ॥१६८९॥

सरोरुहस्य ।

श्रमपरिगतैर् विस्तीर्णश्रीर् असीति परं पयः
कतिपयम् इतं त्वत्तोऽस्माभिः समुद्र समीहितम् ।
किम् असि नितराम् उक्त्षुभोर्मिः प्रसीद नमोऽस्तु ते
पथि पथि शिवाः सन्त्य् अस्माकं शतं कमलाकराः ॥१६९०॥

कमलगुप्तस्य । (सु।र। १०८१)