मर्यादैकपरायणस्य जलधेर् वेलातटक्ष्मारुहां
यल् लक्ष्मीर् अनपायिनी भगवतो माहात्म्यम् अस्यैव तत् ।
एतस्मिन् क्षुभिते तु वीचिवलनैर् विश्वं निपीय स्थिते
सूर्याचन्द्रमसोर् अपीह न कथा केऽमी तटान्तद्रुमाः ॥१६७६॥
धोतीकस्य ।
एकेनैव पयोधिना जलमुचस् ते पूरिताः कोटिशो
जातो नास्य कुशाग्रलीनतुहिनश्लक्ष्णोऽपि तोयव्ययः ।
आहो शुष्यति दैवदुर्विलसितैर् अम्भोभिर् अम्भोमुचः
सम्भूयापि विधातुम् अस्य रजसः स्तैमित्यम् अप्य् अक्षमाः ॥१६७७॥
शब्दार्णवस्य । (सु।र। १०४७)
किं ब्रूमो जलधेः श्रियं स हि खलु श्रीजन्मभूमिः स्वयं
वाच्यः किं महिमास्य यस्य हि किल द्वीपं महीति श्रुतिः ।
त्यागः कोऽपि स तस्य बिभ्रति जगद् यस्यार्थिनोऽप्य् अम्बुदाः
शक्तेः कैव कथापि यस्य भवति क्षोभेण कल्पान्तरम् ॥१६७८॥
तस्यैव । (सु।र। ११९६; सू।मु। १०४।१०)
एतस्माज् जलधेर् जलस्य कणिकाः काश्चिद् गृहीत्वा ततः
पाथोदाः परिपूरयन्ति जगतीं रुद्धाम्बरा वारिभिः ।
अस्मान् मन्दरकूटकोटिघटनाभीतिभ्रमत् तारकां
प्राप्यैकां जलमानुषीं त्रिभुवने श्रीमान् अभूद् अच्युतः ॥१६७९॥
हरेः । (सु।र। ११९७, मुञ्जराजस्य; सू।मु। १०४।९, जलमानुषीरुद्रस्य)
मर्यादाभङ्गभीतेर् अमृतमयतया धैर्यगाम्भीर्ययोगान्
न क्षुभ्यन्त्य् एव तावन् नियमितसलिलाः सर्वदैते समुद्राः ।
आहो क्षोभं व्रजेयुः क्वचिद् अपि समये दैवयोगात् तदानीं
न क्षोणी नाद्रिवर्गो न च रविशशिनौ सर्वम् एकार्णवं स्यात् ॥१६८०॥
सुवर्णरेखस्य । (सु।र। १०४८)