००६ चन्द्रसूर्यौ

चारित्राणि रवेर् जयन्ति जगताम् अग्रे तमो दुर्गतिं
दृष्टास्तं व्रजतापि येन शशभृत्यारोपिता दीप्तयः ।
प्रीताः स्म पुनर् अस्य सम्प्रति सदाचारेण शीतद्युतेर्
यत् तद् बन्धुषु पङ्कजेषु किम् अपि प्रारम्भि दुर्नाटकम् ॥१६६६॥

जलचन्द्रस्य ।

दिवसरजनीनाथौ पुंसः परस्य विलोचने
कमलकुमुदानन्दग्रन्थी तमःपरिपन्थिनौ ।
तपनशशिनौ सृष्ट्वा राहुग्रहं सृजता त्वया
कथम् अपयशस् तादृग् धातः स्वहस्तितम् आत्मनः ॥१६६७॥

वैद्यगदाधरस्य ।

विरम तिमिर साहसाद् अमुष्माद्
दिनमणिर् अस्तम् उपागतस् ततः किम् ।
कलयति न पुरोमहो महोर्मि
प्लुतवियदभ्युदयत्य् अयं सुधांशुः ॥१६६८॥

श्रीवल्लालसेनदेवपादानाम् । (शा।प। ७६३, सू।मु। ११।६)

तत् तावद् एव शशिनः स्फुरितं महीयो
यावन् न तिग्मरुचिमण्डलम् अभ्युदेति ।
अभ्युद्गते सकलधामनिधौ तु तस्मिन्न्
इन्दोः सिताभ्रपटलस्य च को विशेषः ॥१६६९॥

मधुकूटस्य । (स।क।आ। २।८७, स्व् ५५५, सु।र। १२०५)

विश्वेषां दधता प्रबोधपदवीं येनानुषङ्गात् कृताः
स्वेषाम् अम्बुरुहां श्रियः स भगवान् उष्णोऽपि सेव्यो रविः ।
शीतेनापि किम् इन्दुना यद् उदये तस्यैव यद् बान्धवैर्
उद्बुद्धं कुमुदैर् इदं तु शिरसा कृत्स्नं जगद् घूर्णते ॥१६७०॥

उमापतिधरस्य ।