सुधांशोर् जातेयं कथम् अपि कलङ्कस्य कणिका
विधातुर् दोषोऽयं न च गुणनिधेस् तस्य किम् अपि ।
स किं नात्रेः पुत्रो न किम् उ हरचूडार्चनमणिर्
न वा हन्ति ध्वान्तं जगद् उपरि किं वा न वसति ॥१६६१॥
दङ्कस्य ।
अस्मिन्न् अभ्युदिते जगत्त्रयदिशाम् उल्लासहेतौ दिशाम्
आस्यम्लानिहरे सुधारसनिधौ देवे निशास्वामिनि ।
वक्त्रं मुद्रितम् अम्बुजन्म भवता चेत् किं ततः शाश्वतं
नैतस्येश्वरमौलिमण्डनमणेर् गायन्ति विश्वे यशः ॥१६६२॥
वैद्यगदाधरस्य ।
अजनि भगवान् अस्माद् वेधाः शिरःसु सुधाभुजां
कृतपदम् इदं चैतद् देव्याः श्रियो धृतिमन्दिरम् ।
तद् इह भुवनाभोगश्लाघ्ये सरोरुहि यच् चिरं
शशधर तव द्वेषारम्भः स एष जडग्रहः ॥१६६३॥
तस्यैव ।
नयनम् असि जनार्दनस्य शम्भोर्
मुकुटमणिः सुदृशां त्वम् आदिदेवः ।
त्यजसि न मृगमात्रम् एतद् इन्दो
विरमति येन कलङ्ककिंवदन्ती ॥१६६४॥
रामदासस्य । (शा।प। ७५५)
आशाः प्रसादयतु पुष्यतु वा चकोरान्
कामं तनोतु कुमुदेषु मुदं सुधांशुः ।
एकः स एव परम् उत्कटराहुदन्त
पत्रप्रवेशसमदुःखसुखः कुरङ्गः ॥१६६५॥
योगेश्वरस्य ।