००२ महादेवः

देवैर् दुग्धपयोधिरोधसि उरा कैर् नाम मन्थाचल
क्षोभप्रोद्गतचन्द्रमःप्रभृतये न प्रेषिताः पाणयः ।
स्वीचक्रे परम् एक एव भगवान् उद्विग्नलोकत्रयी
रक्षायै कटुकालकूटगरलग्रासं स गौरीश्वरः ॥१६४६॥

वासुदेवसेनस्य ।

छिन्ने ब्रह्मशिरो यदि प्रथयति प्रेतेषु सख्यं यदि
क्षीवः क्रीडति मातृभिर् यदि रतिं धत्ते श्मशाने यदि ।
सृष्ट्वा संहरति प्रजा यदि तदाप्य् आधाय भक्त्या मनस्
तं सेवे करवाणि किं त्रिजगती शून्या स एवेश्वरः ॥१६४७॥

उमापतिधरस्य ।

स्वं चेत् सञ्चरसे वृषेण लघुता का नाम दिग्दन्तिनां
व्यालैः कङ्कणकुण्डलानि कुरुषे हानिर् न हेम्नाम् अपि ।
मूर्धन्यं तनुषे जडांशुम् अयशः किं नाम लोकत्रयी
दीपस्याम्बुजबान्धवस्य जगताम् ईशोऽसि किं ब्रूमहे ॥१६४८॥

शैलसर्वस्य ।

आहारो गरलं तृतीयम् अलिके चक्षुः कपालं करे
वासः कुञ्जरचर्म भस्मनि रतिर् भूषा भुजङ्गाधिपः ।
जन्मालक्ष्यम् असाक्षिकं कुलम् अविज्ञाता च जातिः
कथं सेव्योऽस्माभिर् असौ पिशाचपरिषद्भर्ता हताः स्मो वयम् ॥१६४९॥

धर्मयोगेश्वरस्य ।

पाणौ ब्रह्मकपालम् अस्हित्भिर् अलङ्कारोऽङ्गरागश् चिता
भस्माव्याहतम् उत्तरीयम् उरगः क्रीडा समं मातृभिः ।
यस्यैतान्य् असमञ्जसानि तम् अनाचारैः पिशाचैर् वृतं
कः स्थाणुः फलवाञ्छया वद वृषाद् अन्यो जनः सेवते ॥१६५०॥

तस्यैव ।