भूता एव तिमिङ्गिलप्रभृतयो ये यादसाम् अग्रिमास्
ते वैसारिणवेशकेशवशिशोर् जाता न रात्रौ पुनः ।
पृष्ठप्रोञ्छिततोयतुच्छजलधेर् आपूर्य येनान्तरं
ताः कल्लोलपरम्परा इव परं देहत्वचो दर्शिताः ॥१६४१॥
क्षियाकस्य ।
भ्रमति गिरिराट् पृष्ठे गर्जत्य् उपश्रुति सागरो
दहति विततज्वालाजालो जगन्ति विषानलः ।
स तु विनिहितग्रीवाकाण्डः कटाहपुटान्तरे
स्वपिति भगवान् कूर्मो निद्राभरालसलोचनः ॥१६४२॥
चिरन्तनशरणस्य । (सु।र। ११८, सू।मु। १०८।२)
जायन्ते बहवोऽत्र कच्छपकुले किं तु क्वचित् कच्छपी
नैकाप्य् एकम् असूत सूनुम् अपरं सूतेन वा सोष्यते ।
आकल्पं धरणीधरोद्वहनतः सन्तापखिन्नात्मनो
यः कूर्मस्य दिनानि नाम कतिचिद् विश्रामदानक्षमः ॥१६४३॥
शतानन्दस्य । (सु।र। ११०५)
निष्कन्दामरविन्दिनीं स्थपुटितोद्देशां स्थलीं पल्वले
जम्बालाविलम् अम्बु कर्तुम् अपरा सूते वराही सुतान् ।
दंष्ट्रायां चतुरर्णवोर्मित्पटलैर् आप्लावितायाम् इयं
यस्या एव शिशोः स्थिता विपदि भूः सा पुत्रिणी पोत्रिणी ॥१६४४॥
अभिनन्दस्य । (स।क।आ। ४।९४, शा।प। १२१४, सू।मु। ३६।६)
अपत्यानि प्रायो दश दश वराही जनयति
क्षमाभारे धुर्यः स पुनर् इह नासीन् न भविता ।
पदं कृत्वा यः स्वं फणिपतिफणाचक्रवलये
निमज्जन्तीम् अन्तर्जलधि वसुधाम् उद्वलयति ॥१६४५॥
वराहस्य । (सु।र। १२०६)