लीलालोलकराङ्गुलीहतिरणद्वीणागुणप्रोच्चरद्
गान्धारध्वनिसंवदन्मृदुकलास्निग्धस्वरोद्गारिभिः ।
लोलन्मौलिक्भिर् अर्धमीलितलसन्नेत्रैर् बलद्भूलतैर्
गीयन्ते गगनेचरैः सुरपतेर् अग्रे भवत्कीर्तयः ॥१६३१॥
सुरभेः ।
भोगीन्द्रः प्रमदोत्तरङ्गमुरगीसङ्गीतगोष्ठीषु ते
कीर्तिं देव शृणोतु विंशतिशती यच् चक्षुषां वर्तते ।
रक्ताभिः सुरसुन्दरीभिर् अभितो गीतां तु कर्णद्वयी
दुःस्थः श्रोष्यति नाम किं स हि सहस्राक्षो न चक्षुःश्रवाः ॥१६३२॥
मुरारेः । (अर् ७।७९; स्व् २६३८)
गीयन्ते यदि पन्नगीभिर् अनिशं त्वत्कीर्तयस् तद् वयं
तुष्टा एव परं तु चेतसि चमत्कारोऽयम् आरोहति ।
तासां तादृशभावभङ्गिवलना संस्थानसन्दर्शिनि
व्यालेन्द्रे रसधूतमूर्धनि महीचक्रं पुनर् भ्रङ्क्ष्यते ॥१६३३॥
तस्यैव ।
अद्य स्वर्गवधूगणे गुणमय त्वत्कीर्तिम् इन्दूज्ज्वलाम्
उच्चैर् गायति निष्कलङ्किमदशाम् आदास्यते चन्द्रमाः ।
गीताकर्णनमोदमुक्तयवसग्रासाभिलाषो वद
स्वामिन्न् अङ्कमृगः कियन्ति हि दिनान्य् एतस्य वर्तिष्यते ॥१६३४॥
तस्यैव । (सु।र। १००७)
अस्य क्षोणिपतेः परार्धपरया लक्षीकृताः सङ्ख्यया
प्रज्ञाचक्षुर् अवेक्ष्यमाणतिमिरप्रख्याः किलाकीर्त्तयः ।
गीयन्ते स्वरम् अष्टमं कलयता जातेन वन्ध्योदरान्
मूकानां प्रकरेण कूर्मरमणीदुग्धोदधेः रोधसि ॥१६३५॥
कविपण्डितश्रीहर्षस्य । (कुवल्, प्। १४६, न्च् १२।१०६)