०५१ सवीर्यकीर्तिः

वीरक्षीरसमुद्रसान्द्रलहरीलावण्यलक्ष्मीमुसस्
त्वत्कीर्तेस् तुलनां कलङ्कमलिनो धत्ते कथं चन्द्रमाः ।
स्याद् एवं त्वदरातिसौधशिखरप्रोद्भूतशष्पाङ्कुर
ग्रासव्यग्रमनाः पतेद् यदि पुनस् तस्याङ्कशायी मृगः ॥१६२१॥

शाक्यरक्षितस्य । (सू।मु। ९७।३०)

निःसृत्याहवसागराद् अथ पुनः संसृत्य पृथ्वीतलं
कृत्वाधो हिमशैलम् ईश्वरशिरःशीतांशुलेखाम् अपि ।
गङ्गेव स्मृतजन्मभूमिर् अमरैः साश्चर्यम् आलोकिता
कीर्तिस् ते प्रतिलोमलङ्घितवियद्ब्रह्माण्डम् आरोहति ॥१६२२॥

वाक्पतेः । (सू।मु। ९७।४४)

आसीद् उप्तं यद् एतद् रणभुवि भवता वैरिमातङ्गकुम्भान्
मुक्ताबीजं विमुक्तं त्रिजगति जनयामास कीर्तिद्रुमं ते ।
शेषो मूलं प्रकाण्डं हिमगिरिर् उदधिर् दुग्धपूरालवालं
ज्योत्स्ना शाखाप्रतानः कुसुमम् उडुचया यस्य चन्द्रः फलं च ॥१६२३॥

हरेः । (सु।र। १००६)

एका गङ्गा प्रयागे मलयपरिसरे चन्दनं मौक्तिकाली
कान्ताकण्ठे हिमांशुर् वियति सरसि श्वेतम् अब्जं तथास्याः ।
कालिन्दी कालसर्पा मरकततरलो लाञ्छनं भृङ्गमालेत्य्
एवं ते यत्र कीर्तिः परिणमति युता यत्र शत्रोर् अकीर्त्या ॥१६२४॥

रामस्य ।

सा चन्द्राद् अपि चन्दनाद् अपि दरव्याकोषकुन्दाद् अपि
क्षीराब्धेर् अपि शेषतोऽपि फणिनश् चण्डीशहासाद् अपि ।
कर्णातीसितदन्तपत्रमहसोऽप्य् अत्यन्तम् उद्द्योतिनी
कीर्तिस् ते भुजवीर्यनिर्जितरिपोर् लोकत्रयं भ्राम्यति ॥१६२५॥

राजशेखरस्य । (सु।र। ९९७)