०४९ प्रशस्तयशः

आक्षिप्ता चामरश्रीः प्रसभम् अपहृतः पौण्डरीको विलासः
प्रच्छन्नो वीरकम्बुः समजनि विहितः कण्ठभाराय हारः ।
लुप्तो हासप्रकाशः कम् अपि परिभवं प्रापितः पुष्पराशिश्
चन्द्राभैर् यद्यशोभिः प्रतिधरणिभुजां निह्नुता किं च कीर्तिः ॥१६११॥

श्रीमत्केशवसेनदेवस्य ।

अम्भोधिक्षिप्तमुक्तारुचिहरिचरणोद्गीर्णगङ्गाम्बुतुल्यं
कालिन्दीफेनकान्तिस्फुरितफणधरोन्मुक्तनिर्मोकरोचिः ।
कर्णाटीकुन्तलान्तर्विगलितसुमनोदामरम्यं समन्ताच्
छ्रीखण्डालेपलक्ष्मीम् उपनयति यशो यस्य खड्गप्रसूतम् ॥१६१२॥

जलचन्द्रस्य ।

भूचक्रं कियद् एतद् आवृतम् अभूद् यद् वामनस्याङ्घ्रिणा
नागानां कियद् आस्पदं यदुरसा लङ्घन्ति गूढाङ्घ्रयः ।
एकाहाद् यद् अनूरुर् अञ्चति कियन् मात्रं तद् अप्य् अम्बरं
यस्येतीव यशो ह्रिया त्रिभुवनं व्याप्यापि नो तृप्यति ॥१६१३॥

उमापतिधरस्य ।

गृहाद् गृहम् उपागतं व्रजति पत्तनं पत्तनाद्
वनाद् धनम् अनुद्रुतं भ्रमति पादपं पादपात् ।
गिरेर् गिरिम् अधिश्रितं तरति वारिधिं वारिधेर्
यदीयम् अरिसुन्दरीनिकरपृष्ठलग्नं यशः ॥१६१४॥

तस्यैव ।

आस्ते दामोदरीयाम् इयम् उदरदरीं याव् अलम्ब्य त्रिलोकी
सम्मातुं शक्नुवन्ति प्रथिमभरवशाद् अत्र नैतद् यशांसि ।
ताम् एतां पूरयित्वा निरगुर् इव मधुध्वंसिनः पाण्डुपद्म
च्छद्मापन्नानि तानि द्विपदशनसनाभीनि नाभीपथेन ॥१६१५॥

कविपण्डितश्रीहर्षस्य । (न्च् १२।९५, स्व् २५२०, सू।मु। ९७।२३)