०४८ सवीर्ययशः

न तच् चित्रं चित्ते विततकरवालोग्ररसनो
महीभारं सोढुं भुजभुजगराजः प्रभवति ।
यद् उद्भूतेनेदं नवविसलतातन्तुशुचिना
यशोन्रिमोकेण स्थगितम् अवनीमण्डलम् अभूत् ॥१६०६॥

सङ्घश्रियः । (सु।र। १०१३)

श्रीमन्पातालकुक्षिम्भरिभरितसुरस्थानम् अम्भोधिरोधो
रोधि क्ष्माशोधि शुद्धं प्रसरति यद् इदं त्वद्यशस् तत् किम् आहुः ।
तद् ब्रूमस् त्वत्प्रतापानलमिलनकृतक्वाथसम्भारदूर
स्फारोत्तालोऽयम् अभ्रंलिहलहरिभरो वर्धते दुग्धसिन्धुः ॥१६०७॥

श्रीकण्ठस्य ।

चन्द्राभैर् भवतो यशोभिर् अमलैर् विस्तारितायां दिशि
ज्योत्स्नायां तव वैरिवर्गवदने विश्रान्तम् अन्धं तमः ।
किं च भ्रूतिलकान्तपातमिलितश्रीभारसंवर्धित
प्रेमाणि प्रहसन्ति बन्धुकुमुदान्य् आमोदवन्ति स्फुटम् ॥१६०८॥

गोसोकस्य ।

दृष्टं सङ्गरसाक्षिभिर् निगदितं वैतालिकश्रेणिभिर्
न्यस्तं चेतसि खञ्जनैः सुकविभिः काव्येषु सञ्चारितम् ।
उत्कीर्णं कुशलैः प्रशस्तिषु सदा गीतं च नाकेषदां
दानैर् निर्जितवैरिवीर भवतश् चन्द्रावदातं यशः ॥१६०९॥

राजशेखरस्य । (सु।र। १०००)

मुक्ताशीकरनिर्झरासु सदसि क्षुण्णासु कुम्भस्थलीष्व्
आदन्तः स्फुटकर्णचामरदृशास्वावर्जिनां दन्तिनाम् ।
क्षेत्रीकृत्य वरूथिनीं युधि जयश्रीकर्षकेण द्विषां
येनोप्ता इव मुष्टिभिर् निजयशोबीजच्छटा रेजिरे ॥१६१०॥

भिक्षोः ।