मूलं फणाः फणिपतेर् गगनं च मध्यः
शाखा दिशो जलधिमण्डलम् आलवालम् ।
त्रैलोक्यनाथ तव देव यशोद्रुमस्य
तारागणाः सुमनसः फलम् इन्दुबिम्बम् ॥१६०१॥
श्रीहनूमतः ।
मातुः स्वेदमयं ततान पृथुकः क्रोडेन धात्र्याम् असौ
रागाढ्यस् तरुणः पुरन्दरपुरस्त्रीन्यस्तकण्ठग्रहः ।
ज्यायान् अप्य् अभिनत्पितामहपदं नित्याविनीतस् तनू
जन्मा ते यशसां गणस् तदुचितव्रीडोऽसि तत्कीर्तने ॥१६०२॥
छित्तपस्य । (सू।मु। ९७।३९)
बद्धो नैष न लङ्घितो न मथितः पीतो न वा बाडव
व्यग्रो नापि यशोमयो यदुपतेर् अम्लायमानोऽम्बुधिः ।
अब्धींल् लब्धपराभवानधरयन्न् अर्वाग् अथोऽर्वीभृतः
कुर्वन् गर्वविलङ्घितावधिर् अधि ब्रह्माण्डम् आरोहति ॥१६०३॥
वाचस्पतेः ।
ऐरावणन्ति करिणः फणिनोऽप्य् अशेषाः
शेषन्ति हन्त विहगा अपि हंसितारः ।
नीलोत्पलानि कुमुदन्ति च सर्वशैलाः
कैलासितुं व्यवसिता भवतो यशोभिः ॥१६०४॥
महाशक्तेः । (सु।र। १०११)
देव स्वस्ति वयं द्विजास् तत इतस् तीर्थेषु निष्कल्मषाः
कालिन्दीसुरसिन्धुसङ्गपयसि स्नातुं समीहामहे ।
तद् याचेमहि सप्तविष्टपशुचीभावैकतानव्रतं
संयच्छ स्वयशः सितासितपयोभेदाद् विवेकोऽस्तु नः ॥१६०५॥
रथाङ्गस्य । (सु।र। ९९५)