द्वारं खड्गिभिर् आवृतं बहिर् अपि प्रसिव्न्नगण्डैर् गजैर्
अन्तः कञ्चुकिभिः स्फूरन् मणिधरैर् अध्यासिता भूमयः ।
आक्रान्तं महिषीभिर् एव शयनं त्वद्विद्विषां मन्दिरे
राजन् सैव चिरन्तनप्रणयिनीशून्येऽपि राज्यस्थितिः ॥१५९६॥
योगेश्वरस्य । (सु।र। १४०३, स्व् २५६९, सू।मु। ९७।७८, कुवल्, प्। १६१)
वन्यो हस्ती स्फटिकघटिते भित्तभोगेषु बिम्बं
दृष्ट्वा रुष्टः प्रतिगज इति त्वद्द्विषां मन्दिरेषु ।
दन्ताघाताकुलितदशनस् तत् पुनर् वीक्षमाणो
मन्दं मन्दं स्पृशति करिणीशङ्कया साहसाङ्कः ॥१५९७॥
वेतालस्य ।
रन्ध्रे सन्न्यस्तदृष्टिः क्षितिनिहिततनुः क्रीडसंलीनपुच्छः
प्रत्याशायोजितात्मा ग्रहणपरिणतः स्तब्धकर्णो विशङ्कः ।
सङ्कोचाबद्धदेहो नियमितचरणः प्रस्फुरच्छ्मश्रुजालः
शून्ये राजन् विडालस् तव रिपुभवने मूषिकान् उच्छिनत्ति ॥१५९८॥
योगेश्वरस्य ।
वत्से माधवि तात चम्पक शिशो माकन्द कौन्दि प्रिये
हा मातर् मदयन्ति हा कुरवक भ्रातः खसर् मालति ।
इत्य् एवं रिपुमन्दिरेषु भवतः शृण्वन्ति नक्तञ्चरा
गोलाङ्गूलविमर्दसम्भ्रमवशाद् उद्यानदेवीगिरः ॥१५९९॥
शुभाङ्कस्य । (सु।र। १४१२)
स्नातः सम्प्रति वारिवाहसलिलैः संरूढशप्पाङ्कुर
व्याजेनात्तकुशाः प्रणालसलिलैर् दत्त्वा निवापाञ्जलिम् ।
प्रासादास् तव विद्विषां परिपत्कुड्यस्य पिण्डच्छलात्
कुर्वन्ति प्रतिवासरं निजपतिप्रेताय पिण्डक्रियाम् ॥१६००॥
महादेवस्य ।