०४५ अरिपुरम्

अधाक्षीन् नो लङ्काम् अयम् अयम् उदन्वन्तम् अतरद्
विशल्यां सौमित्रैर् अयम् उपनिनायौषधिवराम् ।
इति स्मारं स्मारं त्वदरिनगरीभित्तिलिखितं
हनूमन्तं दन्तैर् दशति कुपितो राक्षसगणः ॥१५९१॥

परिमलस्य । (शा।प। १२६७)

लूतातन्तुपटावनद्धशिरसो वेल्लल्लतासन्ततेर्
अन्योन्यं मिलनाच् चिरस्पृहम् इव व्यासक्तकण्ठग्रहाः ।
क्रीडानिर्वृतघूत्कृतिरवैः साक्रन्दबद्धारवं
क्रन्दन्ति त्वदरातिराजनगरीरथ्याभुवो वीरुधः ॥१५९२॥

युवराजस्य ।

वर्षासम्भृतपीतिमानमनवं स्तब्धाङ्घ्रिहस्तद्वयं
भेकं मूर्ध्नि निगृह्य कज्जलरजःश्यामं भुजङ्गं स्थितम् ।
मुग्धाव्याधवधूस् तवारिनगरे शून्ये चिरात् सम्प्रति
स्वर्णोपस्कृतमुष्टिसायकधिया साकूतम् आकर्षति ॥१५९३॥

छित्तपस्य । (सु।र। १४०१)

लीलाचूततमालकेशरतरुस्कन्धे प्रवृद्धालय
स्वेच्छोन्मदकर्करेटुरटितैर् भीमं बहिः काननम् ।
अन्तर्वेश्मविलोलचर्मचटकापक्ष्माञ्चलोद्वीजन
क्रीडासुप्तपिशाचदम्पतिपुरं राजन् भवद्विद्विषाम् ॥१५९४॥

विश्वेश्वरस्य ।

क्रूरोत्कूजत्करेटुप्रतिरवविरसज्जर्जरग्रन्थिबन्धाः
स्थाआर्थिप्रेतमल्लद्वयकलहसमावर्जितस्थूलशाखाः ।
गोलोमीच्छन्न् अमातृप्रतिकृतिविरतप्रत्यभिज्ञा दिवापि
त्वच्छत्रुग्रामदेवीनिलयनतरवस् त्रासम् उत्पादयन्ति ॥१५९५॥

कस्यचित् ।