हा चित्राङ्गि कुरङ्गि … … … … … हा राजहंसप्रिये
हा चूतद्रुम हा प्रियङ्गुलतिके त्यक्ताः स्थ हा धिक् कथम् ।
इत्थं त्वत्परिपन्थिपार्थिवपुरन्ध्रीणां वनप्रस्थितौ
धाराधौतिकपोलयोर् नयनयोर् अस्रं न विश्राम्यति ॥१५८६॥
गदाधरनाथस्य ।
सन्दिष्टं मरुभूमिभूरुहचयैर् भूयाद् भवान् भूपतिर्
निर्जेता नवखण्डमण्डलभुवो यत् त्वत्प्रसादाद् वयम् ।
प्रत्यासन्नविपन्नहूणतरुणीनेत्रप्रणालीगलद्
बाष्पाम्भःप्लवपूरपिच्छिलतलाः श्रीमुञ्ज मोदामहे ॥१५८७॥
कस्यचित् । (सु।र। १३९८)
एतद् भीतारिनारी गिरिबिलविगलद्वासरा निःसरन्ती
स्वक्रीडाहंसमोहग्रहिलशिशुभृशप्रार्थि तोन्निद्रचन्द्रा ।
आक्रन्दद् भूरि यत् तन् नयनजलमिलच्चन्द्रहंसानुबिम्ब
प्रत्यासत्तिप्रहृष्यत्तनयविहसितैर् आश्वसीन् न्यश्वसीच् च ॥१५८८॥
कविपण्डितश्रीहर्षस्य । (न्च् १२।२८)
गम्भीरनीरसरसीर् अपि पुरुषाः
कुर्वन्ति ये दिनकरस्य करास् त एव ।
त्वद्वैरिवीरवनितानयनाम्बुलेश
शोषे कथं प्रतिहता इति मे वितर्कः ॥१५८९॥
कल्पदत्तस्य । (सु।र। १४२४)
के य्¨¨उयं मुनयः किम् अत्र तपसे स्थानं समीहामहे
नीवाराङ्कुरदन्तुरा नियमितव्याधास्ति विन्ध्याटवी ।
सा सम्प्रत्य् अवनीमहेन्द्र भवतो विद्वेषिवामभ्रुवाम्
अश्रान्तच्युतलोललोचनपयोवन्याभिर् अन्यादृशी ॥१५९०॥
कविराजसोमस्य ।