कान्तारेषु करावलम्बिशिशवः पादैः स्रवल्लोहितैर्
अर्चन्त्यः पदवीं विलोचनजलैर् आवेदयन्त्यः शुचम् ।
दृष्टाः पान्थजनैर् विवृत्य सकृपं हाशब्दगर्भैर् मुखैर्
यन्त्य् अह्ना सकलेन योजनतुरीयांशं तवारिस्त्रियः ॥१५८१॥
पुरुषोत्तमस्य ।
पारेकन्दरम् इङ्गुदीवनम् इतो नीवारकेदारिका
स्वच्छन्दं सरसस् तटे कमलिनीवृन्दाढ्यमन्दानिलः ।
स्वच्छं निर्झरवारिवारणरदोत्खातास् ततो भूरुहा
इत्थं व्याधवधूर् विबोध्य नयति त्वद्वैरिवीराङ्गनाः ॥१५८२॥
विभाकरस्य ।
घ्रातं तालफलाशया स्तनयुगं बिम्बभ्रमेणाधरो
दष्टं पाकविदीर्णदाडिमधिया लीढाः स्फुरन्तो रदाः ।
भ्राम्यन्ती श्रमनिःसहानुविपिनं यद्वैरिसीमन्तिनी
निद्राणा मुहुर् आहता म्हुर् अधिक्षिप्ता च शाखामृगैः ॥१५८३॥
धनञ्जयस्य ।
कुरु तरुषु गृहास्थां तल्पबुद्धिं तृणेषु
त्वचि निवसनवाञ्छाम् अन्नतृष्णां फलेषु ।
इति विनयति देव प्रेयसीं त्वद्रिपूणाम्
अभिनववनवासोद्वेगमुग्धां किराती ॥१५८४॥
वीरभद्रस्य ।
न्यञ्चन्नीवीनिबद्धान्यकलिततिलकान्यक्वणत्कङ्कणानि
भ्रश्यन्मञ्जीरशिञ्जान्य् अचलितवलयस्रञ्जि धौताञ्जनानि ।
अप्रेङ्खत्तारहाराण्यवसितहसितश्रीणि शीर्णालकानि
त्रुट्यत्सिन्दूरबिन्दूरबिन्दून्य् असकृद् अकृत यः शात्रवान्तःपुराणि ॥१५८५॥
उमापतिधरस्य ।