०४२ रिपुसम्भ्रमः

कोषान् गेहेषु मुञ्चन् पथि करितुरगं बान्धवान् अर्घमार्गे
दुर्गेष्व् अन्तःपुराणि प्रतिवलचक्रिताः पर्वतेभ्यो निवृत्ताः ।
यस्योद्योगे भ्रमन्तः समसमयस्मारम्भगम्भीरभेरी
भाङ्गाराकीर्णकर्णज्वरभरतरलप्रेक्षिताशाः क्षितीशाः ॥१५७६॥

विश्वेश्वरस्य ।

श्रुत्वा यं सहसागतं निजपुरात् त्रासेन निर्गच्छतां
शत्रूणाम् अवरोधनैर् जललवप्रस्यन्दतिम्यत्पुटाः ।
शुभ्रे सद्मनि पल्लविन्य् उपवने वाप्यां नवाम्भोरुहि
क्रीडाद्रौ च सशाद्वले विवलितग्रीवैर् विमुक्ता दृशः ॥१५७७॥

धनपतेः । (स।क।आ। १।८३)

मुग्धे किं शुकपञ्जरेण रसिके किं सारकान्वेषणैः
सुस्थे मुञ्चसि किं न चित्रफलकं किं वीणया रागिणि ।
नायं भूषणसङ्ग्रहस्य समयो लीलावति त्वर्यताम्
इत्य् आसन् पुरविद्रवे भवदरिस्त्रीणां वयस्यागिरः ॥१५७८॥

राजशेखरस्य ।

वत्से मालति मालिका न रचिता पुष्पैस् त्वदीयैर् मया
रक्ताशोकतरो तवाप्य् अभिनवो नोत्तंसितः पल्लवः ।
व्यालोआलिकुलावलीढमुकुलस् त्वं चूत नालोकितो
हा धिक् कष्टम् इति ब्रुवन्ति नगरत्यागे तवारिस्त्रियः ॥१५७९॥

गदाधरस्य ।

मातर् मातर् जनक जनक प्रेयसि प्रेयसीति
भ्रातर् भ्रातस् तनय तनय ज्यायसि ज्यायसीति ।
यन् नासीरप्रचुरगध्यूहवित्रस्तवैरि
स्त्रीपुंसानां विदलति दलद्दिक्कलापो विलापः ॥१५८०॥

दाक्षिणात्यस्य ।