०४० दिग्विजयः

क्षिप्तः क्षीरगृहे न दुग्धजलधिः कोषे न हेमाचलो
दिक्पालाः अपि पालिपालनविधाव आनीय नारोपिताः ।
नो वा दिक्करिणः क्वणन् मधुलिहः पर्यायपर्याणन
क्रीडायां विनियोजिता वद कृतं किं किं त्वया दिग्जये ॥१५६६॥

कस्यचित् । (सु।र। १४४६, दक्षस्य)

देवे दिग्विजयोद्यते धृतधनुविद्वेषिसीमन्तिनी
वैधव्यव्रतदायिनी प्रतिदिशं रोषाद् उपक्रामति ।
किं ब्रूमोऽन्यद् इतोऽधिकं रतिर् अतित्रासान् न पौष्पं करे
भर्तुर् भर्तुर् मदान् मदान्धमधुपीनीलीनिचोलं धनुः ॥१५६७॥

नारायणदत्तस्य ।

तत्तद्विक्रमदोहदेन विलसद्दोर्दण्डदम्भोलिना
विद्वेषिव्ययकर्मठेन दिशता निर्वीरम् उर्वीतलम् ।
किं ब्रूमश् चतुरब्धिसीमभुवनं राजन् वदातन्वता
येनाभूर् विजिगीषुणा विदधिरे दिक्पालशेषा दिशः ॥१५६८॥

उमापतिधरस्य ।

आकौमारं समरजयिना कुर्वतोर् वीमवीराम्
एतेनामी कथम् इव दिशाम् ईशितारो विमुक्ताः ।
अन्तर्ज्ञातं वपुषि कलया तस्य तेऽष्टौ प्रविष्टाः
प्रह्वीभूते प्रभवति नहि क्षत्रियाणां कृपाणः ॥१५६९॥

उमापतिधरस्य ।

एकः सङ्ग्रामरिङ्गत्तुरगखुररजोराजिभिर् नष्टदृष्टिर्
दिग्यात्राजैत्रमत्तद्विरदभरनमद्भूमिभग्नस् तथान्यः ।
वीराः के नाम तस्मात् त्रिजगति न ययुः क्षीणतां काणकुब्ज
न्यायाद् एतेन मुक्ताव् अभयम् अभजतां वासवो वासुकिश् च ॥१५७०॥

जयदेवस्य ।