०३९ युद्धस्थली

देव त्वद्भुजयोर् बलं न गदितुं वाचा वयं शक्नुमः
कुर्वाणा हृदयेऽपि तत्पुलकिताः प्रत्यङ्गम् एते वयम् ।
शक्ता सैव पुनस् तवासिपतनच्छिन्नद्विषत्कन्धरा
रन्ध्रोद्वान्तसमीरभैरवरवा युद्धस्थली जल्पितुम् ॥१५६१॥

छित्तपस्य ।

रक्तस्रोतोवहायास् त्वरितम् अवतरन् स्नानतृष्णालुर् एको
वीर त्वद्वैर्सेनाघनपिशितवसापङ्कमग्नैकजङ्घः ।
साक्रन्दक्वाणम् आसीत् प्रसरदपसरत्पाणिभिः कृष्टमुक्तस्
तीरस्थैर् उत्तितीर्षुः परिहसितपरैस् तृप्तिभिः प्रेतवृद्धः ॥१५६२॥

नीलस्य ।

श्लाघन्ते नहि तानि यस्य भुजयोर् अद्यापि युद्धस्थली
सीमान्ते रिपुकीकसोत्थितकुशव्याजेन रोमाञ्चिताः ।
पूर्वाभ्यासगताभिर् अङ्कपलभुग्दंष्ट्रावलीचर्वणान्
निर्मांसास्थितयोच्चरत्कटकटस्पष्टाक्षरश्रेणयः ॥१५६३॥

गोतिथीयदिवाकरस्य ।

निर्यन्नाराचधाराचयखचितपतन्मत्तमातङ्गजातं
जातं यस्यारिसेनारुधिरजलनिधावन्तरीपभ्रमाय ।
सुप्ता यस्मिन् रतान्ते सह च सहचरैर् नालवन्नागनासा
रन्ध्रद्वन्द्वैकपात्रे रुधिरमधुरसं प्रेतकान्ताः ॥१५६४॥

जयदेवस्य ।

कृष्टे घोटकटापसम्पुटघटाफालाग्रसङ्घट्टनैश्
छिन्नारातिकबन्धरन्ध्रविगलद्रक्तेन सिक्ते रणे ।
मूलेन त्वदसिप्रहारपतिता वैरीभदन्तव्रजा
राजन्ते जगदग्रपल्लवियशोबीजप्ररोहा इव ॥१५६५॥

वीरदत्तस्य ।