राजन् वाजिपदातिकुञ्जरशिरश्छिन्नं रणे यत् त्वया
नृत्यद्योधकबन्धकण्ठमिलितं तेनारिवीरव्रजः ।
हेरम्बीयति किन्नरीयति शिरोराहूयतीति क्षणं
निर्माणं तव बङ्गनायक कथापाण्डित्यम् उन्मीलति ॥१५५६॥
उदयादित्यस्य ।
सङ्ग्रामाङ्गणसङ्गतेन भवता चापे समारोपिते
देवाकर्णय येन येन सहसा यद्यत्समासादितम् ।
कोदण्डेन शराः शरैर् अशिरस् तेनापि भूमण्डलं
तेन त्वं भवता च कीर्तिर् अनघा कीर्त्या च लोकत्रयम् ॥१५५७॥
कर्कराजस्य । (स।क।आ। १।११५, सु।र। १४०७)
शत्रूणां कालरात्रौ समिति समुदिते बाणवर्षान्धकारे
प्राग्भारे खड्गधारां सरितम् इव समुत्तीर्य मग्नारिवंशाम् ।
अन्योन्याघातमत्तद्विरदघनघटादन्तविद्युच्छटाभिः
पश्यन्तीयं समन्ताद् अभिसरति मुदा सांयुगीनं जयश्रीः ॥१५५८॥
जयदेवस्य ।
यदस्त्रव्यापाराद् अभिमुखहतैः क्षत्रियभटैः
स्वसत्त्वेन क्रीतं भुवनम् अभिसर्पद्भिर् अभितः ।
कृतच्छिद्रश्रेणीविधुरपरिभोगं भगवतो
गभस्तीनां पत्युस् तितौतुलनां मण्डलम् अगात् ॥१५५९॥
मुरारेः ।
यन् निस्त्रिंशहतोद्गतैर् अरिशिरश् चक्रैर् बभूव क्षणं
लोके चान्द्रमसे विधुन्तुदघटावस्कन्दकोलाहलः ।
किं चामीभिर् अपि स्फुरन्मुखतया शीतांशुकोटिभ्रमं
बिभ्राणैर् उदपादि राहुभुवने भूयान् सुभिक्षोत्सवः ॥१५६०॥
तस्यैव । (सु।र। १५७०)