यस्योद्योगे बलानां दिशि दिशि वलताम् उज्जिहानै रजोभिर्
जम्बालिन्य् अम्बरस्य स्रवदमरधुनीवारिपूरेण मार्गे ।
संसीदच्चक्रशल्याकुलतरणिकरोत् पीडिताश्वीयदत्त
द्वित्रावस्कन्दमन्दः कथम् अपि चलति स्यन्दनो भानवीयः ॥१५४१॥
बाणस्य । (सु।र। १५६५)
सप्तद्वीपकुटुम्बभूतलभुवो निष्पीतसप्ताब्धयस्
तन्मार्गेण च सप्तपन्नगफणारत्नावलोकच्छिदः ।
क्रीडा दिग्विजये च सप्तजगतीभाजो यद् अक्षौहिणी
जन्माः प्रसरन्ति सप्तपवनस्कन्धस्पृशो धूलयः ॥१५४२॥
मुरारेः ।
यस्याशाविजयप्रवृत्तपृतनाचक्रे परिक्रामति
क्षुण्णक्ष्मातलधूलिसङ्कुलम् अभून् मर्त्यस्थलाभं ।
एतस्याम् अदसीयसम्प्लवपरिक्षीणाम्भसि प्रावृषि
प्रायः सम्भवति स्म भूपरिसरे भूयान् इवावग्रहः ॥१५४३॥
तिलचन्द्रस्य ।
अब्धौ मज्जन्ति मीना इव फणिन इव क्षौणिरन्ध्रं विशन्ति
क्रामन्त्य् अद्रीन् विहङ्गा इव कपय इव क्वाप्य् अरण्ये चरन्ति ।
देव क्ष्मापालशक्र प्रसरदनुपमत्वच्चमूचक्रवाह
व्यूहव्याधूतधूलीपटलहतदृशः कान्दिशीकाः क्षितीशाः ॥१५४४॥
विश्वेश्वरस्य ।
भूतिस्नानप्रमोदं तनुभिर् अलभत स्पष्टम् अष्टाभिर् ईशो
भूयस् तुङ्गत्वम् आपुः पिहितगिरिगुहागह्वरआः क्ष्माधरेन्द्राः ।
यात्रायां यस्य खेलत्तुरगखुरखुरोत्खातधूलीभरेण
प्रापुर् वर्षाभ्रलक्ष्मीम् अतिमलिनतया शारदास् तोयवाहाः ॥१५४५॥
तस्यैव ।