०३२ प्रयाणम्

नृपतिमुकुटरत्नं त्वत्प्रयाणप्रशस्तिं
प्रबलभरनिमज्जद्भूधराक्रान्तभोगः ।
लिखति दशनटङ्कैर् उत्पतद्भिः पतद्भिर्
जरठकमठभर्तुः कर्परे सर्पराजः ॥१५२६॥

त्रिपुरारिपालस्य ।

दिग्यात्रासु तदीयसैनिकभरक्षुब्धाब्धिकोलाहल
त्रस्तश्रीपरिरम्भमीलितदृशो देवस्य कंसद्विषः ।
सस्वेदालसपाणिपल्लवगलत्कौमोदकीम् आदराद्
उद्गम्यानमत्फणः फणभृतां भर्ता बिभर्ति क्षितिम् ॥१५२७॥

तस्यैव ।

राजन् दुःसहदोःप्रतापदलिताशेषक्षितीशस्य ते
वेलालोकनकौतुकेन भवतः कोऽयं प्रयाणे रसः ।
यद्दन्तीन्द्रचमूमहाभरनमन्नेमिः क्रमाद् एकतो
भूर् अन्यत्र समुन्नता फणिपतेर् मौलौ न वर्तिष्यते ॥१५२८॥

गदाधरनाथस्य ।

ते दिक्पालविलासिनीकुचतटे कस्तूरिकाकान्तयो
वैरिस्त्रीवदनेषु साञ्जनगलन्नेत्राम्बुमैत्रीधराः ।
स्वर्गङ्गाकमलेषु भृङ्गरुचयो यस्य प्रयाणे बभुर्
निर्धूताः पवनेन मत्तकरिणां दानाम्भसां बिन्दवः ॥१५२९॥

विश्वेश्वरस्य ।

अम्भः कर्दमताम् उपैति सहसा पङ्कद्रवः पांशुतां
पांशुर् वारणकर्णतालपवनैर् दिक्प्रान्तनीहारताम् ।
निम्नत्वं गिरयः समं विषमतां शून्यं जनस्थानतां
निर्याते त्वयि राज्यपाल भवति त्यक्तस्वभावं जगत् ॥१५३०॥

महोदधेः । (सु।र। १४२८)