ज्यां बिभ्रद्भुजगो भुजङ्गमयुवा चापस् तवास्मिन् पुनः
शेते कुण्डलिते विपक्षकषणो नाराचनारायणः ।
बिभ्राणा हृदयेन यं क्षणम् अपि क्षोणीभुजो भेजिरे
भित्त्वाम्भोरुहबन्धुबिम्बम् अचिराद् आनन्दसान्द्रं महः ॥१५२१॥
आचार्यगोपीकस्य ।
यः पृष्ठं युधि दर्शयत्य् अरिभटश्रेणीषु यो वक्रताम्
अस्मिन्न् एव बिभर्ति यश् च किरति क्रूरध्वनिं निष्ठुरः ।
दोषं तस्य तथाविधस्य भजतश् चापस्य गृह्णन् गुणं
विख्यातः स्फुटम् एक एष नृपतिः सीमा गुणग्राहिणाम् ॥१५२२॥
कविपण्डितश्रीहर्षस्य । (न्च् १२।९७, स्व् २५०८)
भुजेऽपसर्पत्य् अपि दक्षिणे गुणं
सहेषुणादाय पुरः प्रसर्पिणे ।
धनुःपरीरम्भम् इवास्य सम्मदान्
महाहवे यच्छति वामबाहवे ॥१५२३॥
तस्यैव । (न्च् १२।६४, स्व् २५२५)
भ्रूचापप्रहितेन दृष्टिविशिखेनैवास्य विद्वेषिणो
ध्वस्ताः पूर्वम् अतस् तदीयदलने सम्भावि मे दुर्यशः ।
इत्य् आलोच्य कराम्बुजार्चितम् अपि न्यस्तं पुरस्ताद् अपि
द्राग् जातं समरेषु यस्य निविडव्रीडाविनम्रं धनुः ॥१५२४॥
गोतिथीयदिवाकरस्य ।
प्रागष्टादशपर्व भारतम् इदं निर्माय कर्माद्भुतं
भूपानाम् अनपायपौरुषम् इह व्यासेन यत् कीर्तितम् ।
सङ्ग्रामाङ्गणसीम्नि सम्यग् अधुना देव त्वदीयो भुजस्
तत्पर्वत्रयबन्धुरेण धनुषा व्याकर्तुम् एष क्षमः ॥१५२५॥
जलचन्द्रस्य ।