०३० कुपितखड्गः

पर्यङ्को राजलक्ष्म्या हरितमणिमयः पौर्षाब्धेस् तरङ्गो
भग्नप्रत्यर्थिवंशोल्बणविजयकरिस् त्यानदानाम्बुपट्टः ।
सङ्ग्रामत्रासताम्यन्नरपतिसुयशोराजहंसाम्बुवाहः
खड्गः क्ष्मासौ विदल्लः समिति विजयते मालवाखण्डलस्य ॥१५१६॥

कस्यचित् ।

वीरश्रीवेणिबन्धो भुजभुजगफणा शत्रुषु भ्रूपताका
देवस्य प्रेतभर्तुः स्फुरदुरुपृतनाद्विपिनी वीचिदण्डः ।
क्रोधाग्नेर् धूमवर्तिः सुरयुवतिदृशां शृङ्खलादाम दीर्घं
लक्ष्मीलीलाकटाक्षः पर्तिसमरम् अभूद् यस्य जैत्रः कृपाणः ॥१५१७॥

राजशेखरस्य । (बा।रा। ३।४८)

दृप्यत्प्रत्यर्थिपृथ्वीपतिविततयशःकौमुदीकृष्णपक्षो
लक्ष्मीसञ्चारदूतः सुरनरनगरारम्भनिर्विघ्नयष्टिः ।
सङ्ग्रामाम्भोधिमाद्यद्भुजगफणा तल्पकल्पान्तकृष्ट
खड्गस् ते देवजीयाद् अयम् उदितमहीमण्डलाखण्डलस्य ॥१५१८॥

शान्त्याकरस्य ।

अस्यासिर् भुजगः स्वकोशसुषिराकृष्टः स्फुरत्कृष्णिमा
कम्पोन्मीलदरालनीलरसनः केषां भिये न द्विषाम् ।
सङ्ग्रामेषु निजाङ्गुलीमयमहासिद्धौषधीवीरुधः
पर्वास्ये विनिवेश्य जाङ्गुलिकता यैर् नाम नालम्बिता ॥१५१९॥

कविपण्डितश्रीहर्षस्य । (न्च् १२।९६, सू।मु। ९७।४९)

लीलोत्तंसतमालवल्लिर् अवनेर् एतत्प्रतापानल
स्फूर्जद्धूमशिखा क्रुधाकुलतनोः कालस्य जिह्वाञ्चलः ।
वैरिस्त्रैणविलोचनाञ्जनलिपिस्तेनस् तमोमन्दिरं
निद्राणस्य कलेः स तस्य नृपतेः खड्गो न वाग्गोचरः ॥१५२०॥

युवराजदिवाकरस्य ।