देवः स्वस्तुतिर् अस्तु नाम हृदि नः सर्वे च सन्त्वागमास्
तीर्थं न क्वचिद् ईदृग् अत्र भवति त्वत्खड्गधारा यथा ।
याम् एकः स्वशरीरशुद्धिरसिको मूर्ध्ना प्रतीच्छन्न् अरिर्
द्वैविध्याद् अनु पञ्चतां तद् अनु च त्रैदश्यम् आप क्षणात् ॥१५११॥
रथाङ्गस्य । (सू।मु। ९७।६८, सु।र। १३९६)
शाखाः पञ्च तवोद्गता भुजतरोस् ताभिस् तथैकं धृतं
सम्भूयैव किलासिपत्रम् अभवत् तत्रापि चित्रान्तरम् ।
विश्वव्यापियशःप्रसूनम् अखिलव्यापच्छिदे श्रीफलं
छायां किं कथयामि यत्र निखिलं विश्राम्यति क्ष्मातलम् ॥१५१२॥
लङ्गदत्तस्य ।
अपनय महामोहं राजन्न् अनेन तवासिना
कथय कुहकाश्चर्यं क्वेदं कथं क्व च शिक्षितम् ।
यद् अरिरुधिरं पायं पायं कुसुम्भरसारुणं
झटिति वमति क्षीराम्भोधिप्रवाहसितं यशः ॥१५१३॥
दक्षस्य । (सु।र। १०१५)
उद्यात्य् एव सुहृत्कुलं प्रतिबलं यात्य् एव नीचैस्तराम्
आयान्त्य् एव यशःश्रियः प्रतिदिशं यान्त्य् एव सत्कीर्तयः ।
येनैकेन मुखाग्रपाटिततनूभूतार्द्रकोटिश्रिया
सर्वाश्चर्यमयः स एव जयति त्वत्खड्गधारापथः ॥१५१४॥
शुङ्गोकस्य ।
श्रीखण्डमूर्तिः सरलाङ्गयष्टिर्
माकन्दम् आमूलम् अहो वहन्ती ।
श्रीमन् भवत्खड्गतमालवल्ली
चित्रं रणे श्रीफलम् आतनोति ॥१५१५॥
जयदेवस्य ।