०२८ खड्गः

देव त्वं मलयाचलोऽसि भवतः श्रीखण्डशाखी भुसस्
तस्मिन् कालभुजङ्गमो निवसति स्फूर्जत्कृपाणच्छलात् ।
एष स्वाङ्गम् अनर्गलं रिपुतरुस्कन्धेषु सङ्घट्टयन्
दीर्घं व्योमविसारिनिर्मलयशो निर्मोकम् उन्मुञ्चति ॥१५०६॥

छित्तपस्य । (सू।मु। ९७।३३)

तुल्या बाणकृपाणयोर् अनुगतिः क्षीणाननओ न क्वचित्
कोषं मे हरति प्रयच्छति सदा लक्षं रणे पत्रिणे ।
इत्थं देव कुनायकत्वम् असकृद् बुद्ध्वैव युद्धेष्व् असिः
कृत्वा सन्धिम् उपोढवेपथुर् अतिक्रोधाद् विवेश द्विषः ॥१५०७॥

लङ्गदत्तस्य । (सू।मु। ९७।५१)

द्वाभ्याम् एव जितं द्वयोः परम् अमून्य् अङ्गानि भूमिभर
श्लाघ्यश्रीणि गृणन्ति सम्प्रति भवत्स्व् अङ्गस्य कूर्मस्य च ।
यत् कम्पे क्षितिपालशत्रुवसुधाचक्रं समुत्कम्पते
निर्व्याजं निपतन्ति च क्षितिभृतां विष्वक्शिरःश्रेणयः ॥१५०८॥

चूडामणेः ।

यशः पुत्रं देव त्वदसिलतिकासूत समरे
समीरस् तद्धूलीपटलपटवासं विकिरति ।
शिवा यायन्त्य् उच्चैर् अटति च कबन्धावलिर् अभूद्
अरातीनां मोक्षः सपदि भवबन्धव्यतिकरात् ॥१५०९॥

विद्यायाः ।

नो वेर्से ॥१५१०॥