भृङ्गैर् नाविकसन्निभैः परिगतं शुद्धान्तवामभ्रुवां
कर्णभ्रष्टम् अवेक्ष्य केतकदलं वापीजले सन्तरत् ।
श्रीमत्साहसमल्लवीर भवतो नौसार्थम् अन्तः स्मरन्न्
उत्त्रस्तोऽद्य पुनः करोति सलिलक्रीडां न गौडाधिपः ॥१४९६॥
वसुकल्पस्य ।
जितपवनजवाभिर् नौभिर् आस्कन्द्य सद्यस्
त्रिदिवम् अपि विजेतुं नाक्षमः क्षत्रियोऽयम् ।
यदि न शिरसि भर्गः स्वर्गिणां भागधेयैर्
दधदमरधुनीं स्याद् अन्तरालेऽन्तरायः ॥१४९७॥
शुङ्गोकस्य ।
नौकाभिनीतजलकेलिषु केनिपात
पातोच्छलत्सलिलशीकरसञ्चयेन ।
देव त्वया विरचितो नभसि प्रगल्भ
वाचालवीचिवलितः प्रचलः पयोधिः ॥१४९८॥
हरिवंशस्य ।
नखाङ्कं नारीणाम् अनिललुलितं केतकदलं
कलाम् इन्दोः पत्रं परिणतिविशीर्णजलरुहाम् ।
निरीक्षन्ते यस्य द्रुतमिलितनौकाटकघटा
हठाकृष्टिभ्रष्टाश् चकितम् इव काशीजनपदाः ॥१४९९॥
उमापतिधरस्य ।
नौकानिर्गमकेनिपातपतनोदञ्चत्पयोबिन्दुभिर्
धारालापैर् विपरीतवृष्टिषु कथावृद्धो न वृद्धश्रवाः ।
किं च द्वेषिपुरे पुरन्दरपुरीवस्त्राञ्चलीकुङ्कुम
क्षोदक्षालनवारिपातरुधिरभ्रान्तो जनस् ताम्यति ॥१५००॥
नरसिंहस्य ।