कूर्मः पादोऽस्य यष्टिर् भुजगपतिर् असौ भाजनं भूतधात्री
तैलोत्पूराः समुद्राः कनकगिरिर् अयं वृत्तवर्तिप्ररोहः ।
अर्चिश् चण्डांशुरोचिर् गगनमलिनिमा कज्जलं दह्यमाना
शत्रुश्रेणी पतङ्गा ज्वलति रघुपते त्वत्प्रतापप्रदीपः ॥१४७६॥
श्रीहनूमतः । (शा।प। १२४८, सू।मु। ९७।४७, सु।र। १४५७)
तादृग्दीर्घविरिञ्चिवासरविधौ जानामि यत्कर्तृतां
शङ्के यत्प्रतिबिम्बम् अम्बुधिपयः पूरोदरे बाडवः ।
तत्तादृक्प्रतिपक्षराजकयशस् ताराः पराभावुकः
कासाम् अस्य न स प्रतापतपनः पारं गिरां गाहते ॥१४७७॥
कविपण्डितश्रीहर्षस्य । (न्च् १२।११, स्व् २५२७, सू।मु। ९७।४८)
निष्पिष्टप्रतिराज राजति सजातीयत्रयं तेजसाम्
और्वश् चाग्निरिरम्मदश् च भवतश् चैष प्रतापानलः ।
आद्यो माद्यति वारिभिर् जलनिधेर् अम्भोमुचां मध्यमः
प्रत्यर्थिक्षितिपालयौवनदृशाम् उद्गत्वरैर् अन्तिमः ॥१४७८॥
हरेः ।
वंशोत्तंसम् अशोकसङ्कुलम् अतिप्रोद्दामबाणासनं
दृप्यद्द्वीपि चमच्चमूरु निनदहन्ति भ्रमत्खड्गि च ।
यस्योज्जागरनागरङ्गम् अभितः पुन्नागपुण्याश्रयं
जग्राह प्रतिराजकं वनम् अभि क्रुद्धः प्रतापानलः ॥१४७९॥
शुङ्गोकस्य ।
एकद्वित्रिकलाक्रमेण शशिनं गृह्णन् विमुञ्चन्न् अयं
यच्चण्डद्युतिर् आतनोति भगवान् अद्यापि चान्द्रायणम् ।
देवैतद् भवदीयभास्वरभुजस्तम्भप्रतापानल
स्पर्धायै क्रमभुक्तलाञ्छनपशोर् नैतत् पुनः सेत्स्यति ॥१४८०॥
आचार्यगोपीकस्य ।