व्यायामोचितबाहुसाहसवशाद् एकोऽपि कोपोत्कटं
वक्षस्य् उत्कटसोढसायकभरो भिन्दन् बहून् विद्विषः ।
त्वं यस्माद् अयशस् त एव समिति त्रस्तो न शस्त्रक्षतैस्
तेनैवायशसः परिग्रहम् अमी मुक्तायुधाः कुर्वते ॥१४७१॥
कमलगुप्तस्य ।
अयं सेनोत्तंसः करकृतकृपाणो रणभुवि
द्विषद्भूमीपालाः किम् अपसरत प्राणकृपणाः ।
किम् अभ्यर्थ्यः पृथ्वीधरकुहरवासोऽद्य भवतां
न किं हृद्या विद्याधरनगरनीलोत्पलदृशः ॥१४७२॥
कस्यचित् ।
कः शैलान् गिलति क्षमां चलयति क्षाराम्बुधौ धावति
को वा चुम्बति सूर्यबिम्बम् अनलज्वालां समालिङ्गति ।
लीलोल्लासितकृत्तमस्तकम् इव व्यालोलजिह्वालतं
कस् त्वां काञ्चनभृङ्गसङ्गरजयश्रीघोषणाघोषणाः ॥१४७३॥
करञ्जधनञ्जयस्य ।
देव त्वत्तत्प्रतापज्वलनकवलिताः सर्वतो दह्यमानैर्
अङ्गैर् युक्तं यद् एते हिमगिरिशिखरोत्सङ्गम् ईयुर् नरेन्द्राः ।
किं तु त्वच्छौर्यलीलाम् अनुहरति पुरः सिंहयूनां निकाये
तत्राप्य् आतङ्कभाजः क्व ननु विधिहताः स्थैर्यम् आसादयन्ति ॥१४७४॥
युवराजदिवाकरस्य ।
नो कोऽपि श्लोकः ॥१४७५॥