समाजे सम्राजां सदसि विदुषां धाम्नि धनिनां
निकाये नीचानाम् अपि च रमणीनां परिषदि ।
कथञ्चिद् यत्र स्मः क्षणम् इतथयस् तत्र शृणुमः
स्फुरद्रोमोद्भेदाः सुभग भवतः पौरुषकथाः ॥१४६६॥
छित्तपस्य ।
दैवेन त्वदरेस् तवापि सदृशी प्रायः पराजेष्यते
नान्येनेति किल द्वयोर् अपि लिपिर् न्यस्ताः ललाटे ध्रुवम् ।
भूयान् अर्थकृतस् तु सम्प्रति तयोर् भेदोऽयम् उन्मीलति
स्थाने पौरुषम् आश्रयन्ति कृतिनो दैवे निरस्यादरम् ॥१४६७॥
लङ्गदत्तस्य ।
वाहू द्वाव् इदम् एकम् एव भुवनं कस् तत्र वीरो रसः
साम्राज्यस्य च पूर्वपूरुषभुजक्षुण्णस्य किं न प्रियम् ।
इत्य् ऊर्जस्वलपौरुषस्य पुरुषप्रायं जगत् पश्यतो
यस्यात्मापि न मानिनो बहुमतः कुत्रेतरे क्षत्रियाः ॥१४६८॥
शुङ्गोकस्य ।
गन्धेभस्कन्धकण्डूमदगुरुमरुदुल्लोललौहित्यखेलद्
वीचीवाचालकालाचलरिपुशशिना केलितल्पे निषण्णाः ।
कामिन्यः सैनिकानां विधुतविधुरताभीतयो गीतबन्धैर्
यस्य प्राग्ज्योतिषेन्द्रप्रणतिपरिगतं पौरुषं प्रस्तुवन्ति ॥१४६९॥
उमापतिधरस्य ।
भीष्मः क्लीबकतां दधार समिति द्रोणेन मुक्तं धनुर्
मिथ्या धर्मसुतेन जल्पितम् अभूद् दुर्योधनो दुर्मदः ।
छिद्रेष्व् एव धनञ्जयस्य विजयः कर्णः प्रमादी ततः
श्रीमन्न् अस्ति न भारतेऽपि भवतो यः पौरुषैर् वर्धते ॥१४७०॥
जयदेवस्य ।