देवे निर्भरसाहसैकरसिके निःशङ्कवीरेऽधुना
निःसीमप्रसरे निरङ्कुशमतौ ज्ञाने मनाङ् निर्दये ।
निःसम्पत्ति निरायुधं निरशनं निर्भूमि निःसैनिकं
निस्तेजश् च निराश्रयं च निखिलं तद्राजकं वर्तते ॥१४६१॥
वसुकल्पस्य ।
मत्पर्यन्तवसुन्धराविजयिने मुक्तादिरत्नं मया
त्तव्यं ढौकितम् एव सोऽहम् अधुना जातोऽस्मि निष्किञ्चनः ।
इत्य् उल्लासितबाहुवीचिर् उदयान् मार्तण्डबिम्बच्छलात्
प्रातस् तप्तकुठारम् एष वहते देव त्वदग्रेऽम्बुधिः ॥१४६२॥
कस्यापि । (सु।र। १३९७)
शास्त्रैः शत्रुशिरोधितक्षणकलातीक्ष्णोज्ज्वलैः किन्तराम्
अद्यापि क्षितिपाललक्षणधरौ क्लिश्नासि कान्तौ करौ ।
तादृक्क्रूरकटाक्षवीक्षणमिलन्मौर्वीकम् उर्वीतले
सोढा कस् तव देव कोपकुटिलं भ्रूकार्मुकं भूपतिः ॥१४६३॥
करञ्जयोगेश्वरस्य ।
यद्य् अङ्केषु कराः शतं प्रतिकरं यद्य् अङ्गुलीनां शतं
प्रत्येकं यदि पर्वसन्धिषु भवन्त्य् एतासु रेखाः शतम् ।
शक्यन्ते निपुणैस् तदा गणयितुं येन स्वदोर्विक्रमैर्
उत्खाताः कति रोपिताः कति कति व्यापादिताः क्ष्माभुजः ॥१४६४॥
वामदेवस्य ।
शिक्षन्ते चाटुवादान् विदधति यवसान् आनने काननेषु
भ्राम्यन्ति ज्याकिणाङ्कं विदधति शिबिरं कुर्वते पर्वतेषु
अभ्यस्यन्ति प्रणामं त्वयि चलति चमूचक्रविक्रान्तिभाजि
प्राणत्राणाय देव त्वदरिनृपतयश् चक्रिरे कार्मणानि ॥१४६५॥
जयदेवस्य ।