कतिषु न कृता सेवा के वा न वाग्विभवैः स्तुतास्
तृणम् अपि गुणप्रीतः प्रादान् न कोऽपि विपश्चिताम् ।
अयम् इह परं दुःखज्वालाकलापम् अखण्डयत्
कनकपयसां धारादण्डैर् अकाण्डघनाघनः ॥१४४६॥
सिल्हनस्य ।
पूर्णोऽग्रे कलसो विलासवनिता स्मेरानना कन्यका
दानक्लिन्नकपोलपद्धतिर् इभो गौरद्युतिर् गौर् वृषः ।
क्षीरिक्ष्मारुहि वायसो मधुरवाग्वामा शिवेति ध्रुवं
त्वां प्रत्युच्चलतां नरेन्द्रतिलक प्रादुर्भवन्त्य् अर्थिनाम् ॥१४४७॥
परमेश्वरस्य । (सु।र। १४४९)
विस्तीर्णः परिपन्थिकण्टकशतास्तीर्णो दुरध्वान्तरः
क्रूरश्वापदकोटिसङ्कटशिला शैलाटवी लङ्घिता ।
प्राप्ता त्वत्कटकोपकण्टतटिनी दत्तो निवापाञ्जलिर्
दारिद्र्याय नकारमूकनृपते दुष्टोऽसि तुष्टा वयम् ॥१४४८॥
राजोकस्य ।
वासः स्वर्णगृहेषु सख्यम् अमरैः कल्पद्रुमाणां वने
क्रीडा स्वर्गवधूगणैः सह सुधाकण्ठं मुदा पीयते ।
रुष्टेनेदम् अकारि देव भवता हत्वा रणे वैरिणां
तुष्टः प्रेष्यजनाय वेद्मि न परं गौडेन्द्र किं दास्यसि ॥१४४९॥
धर्मयोगेश्वरस्य ।
त्वन्नेत्रेऽपि तवाननेऽपि भवतः पाणाव् अपि त्वत्पदेऽप्य्
अस्ति स्मेरसरोजसौहृदसमाकृष्टैव पद्मालया ।
यन्नीता निजभावम् अर्थिभिर् असौ त्वद्दृष्टिपातैस् त्वदा
देशात् त्वत्करविभ्रमैर् अपि भवत्पादप्रसादाद् अपि ॥१४५०॥
शरणस्य ।