पृथुर् असि गुणैः कीर्त्या रामो नलो भरतो भवान्
महति समरे शत्रुघ्नस् त्वं सदैव युधिष्ठिरः ।
इति सुचरितैर् बिभ्रद् रूपं चिरन्तनभूभृतां
कथम् असि न मान्धाता देव त्रिलोकविधाय्य् अपि ॥१४३६॥
वीर्यमित्रस्य । (स्व् २५०२, सु।र। १४१७)
त्वं चेन् नाथ कलानिधिः शशधरस् तत् तोयनाथा वयं
मर्यादानिधिर् अम्भसां पतिर् अथ त्वं चेद् वयं वारिदाः ।
सर्वाशापरिपूरको जलधरस् त्वं चेद् वयं भूरुहः
सन्मार्गस्थितिविश्रुतस् त्वम् इति चेच् छाखी वयं चाध्वगाः ॥१४३७॥
कस्यचित् । (सु।र। १३९२)
लभ्यन्ते यदि वाञ्छितानि यमुनाभागीरथीसङ्गमे
देव प्रेयजनस् तवैव भवतो भर्तव्यतां वाञ्छति ।
नन्व् एतन्मरणान् न किं नु मरणं कायान् मनोविच्युति
दीर्घं जीव मनस् त्वदङ्घ्रिकमले कायोऽत्र नः केवलम् ॥१४३८॥
छित्तपस्य । (स।क।आ। २।३५६)
सेव्यश् चिन्तामणिर् वा सुरतरुर् अथवा रोहणो वा गिरीणां
भर्ता वा जातकोपे त्वयि निखिलमहादाननिर्वाजवीरे ।
एकश् चैतन्यशून्यस् त्यजति कठिनतां नापरश् छेदखेदं
धत्तेऽन्यः किन्नराणाम् अधिपतिर् अपरः कस् त्वयाभ्यर्थनीयः ॥१४३९॥
शरणस्य ।
प्रीतस् त्वं वेदवादैर् मम तु निरवधिर् नाथ निर्वेदवादः
साकूतस् त्वं कलासु प्रतिदिनविकला वृत्तिर् एका ममैव ।
साध्यस् त्वं भावशुद्ध्या मम तु विजयते कोऽप्य् अभावस् तद् इत्थं
लीलारामो गुणानां मम विगुणनिधेः कौर् उपायैर् उपास्यः ॥१४४०॥
तस्यैव ।