०१२ अत्युक्तिः

मौलौ धारय पुण्डरीकम् अमितं तन्वात्मनो विक्रमं
चक्राङ्कं वह पादपद्मम् अवनिं दोष्णा समभ्युद्धर ।
लक्ष्मीं भ्रूनिकटे निवेशय भव ज्यायान्दिवौकस्पतेर्
विश्वान्तःकरणैकचौर तद् अपि ज्ञातो हरिः खल्व् असि ॥१४२६॥

छित्तपस्य । (स।क।आ। १।९०, सू।मु। ९७।६)

दृंसज्योत्स्नाकुमुदविशदे सैकतेऽस्मिन् सरय्वा
वादद्यूतं चिरतरम् अभूत् सिद्धयूनोः कयोश्चित् ।
एको ब्रूते प्रथमनिहतं कैटभं कंसम् अन्यः
स त्वं तत्त्वं कथय भवता को हतस् तत्र पूर्वम् ॥१४२७॥

तस्यैव ।

हस्ते कल्पतरुं मुखे हिमकरं बाह्वोर् अनन्ताह्वयं
रोषे तत् किल कालकूटगरलं तोषे हरिप्रेयसीम् ।
ओजस्यावृणु नाम वाडवम् इमाम् उद्घाट्य मर्यादितां
घोषोऽयं तव नीरधे वनपते छद्मावतारे श्रमः ॥१४२८॥

मदिम्नस्य ।

उन्निद्रेण मयाद्य चिन्तितम् अभूद् यत्रावतारा हरेर्
आख्याता दश कीर्तितोऽसि न कथं तत्र त्वम् एकादशः ।
त्वच्चारित्रम् अगोचरं कविगिरां जानन्न् अपि क्ष्मापते
न प्रस्तौमि भयेन भारतकवेः कस् तादृशं वक्ष्यति ॥१४२९॥

आचार्यगोपीकस्य ।

भूत्या रज्जय विश्वम् उद्वह नखच्छद्मार्धचन्द्रं पदं
दृष्टिं धेहि हृदि स्फुटं भव वृषाधारो द्विजिह्वं त्यज ।
सङ्क्रुद्धो दह विद्विषां पुरशतं दुर्गानुरागोज्झितः
क्षोणीनाथ तथाप्य् उदारचरितैर् ज्ञातो भवानीश्वरः ॥१४३०॥

वसन्तदेवस्य ।