०११ प्रियाख्यानम्

सौजन्याम्बुनिधे बुधप्रिय गुणप्राकारधर्मद्रुम
प्रारोहप्रतिपन्नवत्सल महात्यागिन् विवेकाश्रय ।
लक्ष्म्यावासमनस्विनी मनसिजव्यापारदीक्षागुरो
स्वामिन् मुञ्ज किम् इत्य् अमुं जनम् उपस्प्रष्टुम् ॥१४२१॥

भोजदेवस्य । (स।क।आ। १।८६)

सौजन्याङ्कुरकन्दसुन्दरकथासर्वस्व सीमन्तिनी
चित्ताकर्षणमन्त्रमन्मथसुहृत्कल्लोलवाग्वल्लभ ।
सौभाग्यैकनिवेश पेशलगिराम् आधार धैर्याम्बुधे
धर्माद्रिद्रुम राजशेखरकवे दृष्टोऽसि यामो वयम् ॥१४२२॥

अभिनन्दस्य । (सु।र। १७१४)

सङ्कल्पेऽङ्कुरितं द्विपत्रितम् अथ प्रस्थानवेलागमे
मार्गे पल्लवितं पुरं प्रविशतः शाखाशतैर् उद्गतम् ।
भ्रातर् भाविनि दर्शने मुकुलितं दृष्टे तु देवे त्वयि
प्रोत्फुल्लं फलितं च सम्प्रति मनोराज्यद्रुमेणाद्य मे ॥१४२३॥

छित्तपस्य । (सु।र। १४३५)

द्वीन्द्रं भाति जगत्त्रिधाम गगनं विश्वं चतुर्दैवतं
पञ्चाम्नायम् इदं च वाङ्मयमयं षट्सायको मन्मथः ।
सप्तांशः परिवत्सरोष्टजलधिस्फारं धरामण्डलं
दिक्चक्रं नवनायकं क्षितिपतिश्रेष्ठ त्वयि भ्राजति ॥१४२४॥

तस्यैव ।

लक्ष्मीकेलिभुजङ्ग जङ्गमहरे सङ्कल्पकल्पद्रुम
श्रेयःसाधकसङ्ग सङ्गरकलागाङ्गेय बङ्गप्रिय ।
गौडेन्द्रप्रतिराजराजकसभालङ्कारकर्णार्पित
प्रत्यर्थिक्षितिपाल पालक सतां दृष्टोऽसि तुष्टा वयम् ॥१४२५॥

जयदेवस्य ।