००७ दृष्टिः

जनयति जननाथ दृष्टिर् एषा
तव नवनीलसरोरुहाभिरामा ।
प्रणयिषु सुसमाश्रितेषु लक्ष्मीम्
अरिषु हि भङ्गम् अनङ्गम् अङ्गनासु ॥१४०१॥

विद्यायाः ।

प्रत्यञ्चत्खलरोहणाद्रिषु हठाद् आमूलम् उन्मूलयन्
… कल्पशाखिषु सुधासान्द्राः सुहृन्मण्डले ।
प्रौढारातिचमूवनेषु दहनज्वालावलीभास्वराः
शृङ्गारैकरसायनानि सुभग त्वद्दृष्टिपाताः पुनः ॥१४०२॥

माधवस्य ।

यतो यतो नृपवर पद्मपाटलं
विलोचनं चलति तव प्रसीदतः ।
ततस् ततो नलिनवनाधिवासिनी
तदीप्सया किल कमलानुधावति ॥१४०३॥

कस्यचित् । (सु।र। १४५०)

ते कौपीनधनास् त एव हि परं धात्रीफलं भुञ्जते
तेषां द्वारि नदन्ति वाजिनिवहास् तैर् एव लब्धा क्षितिः ।
तैर् एतत् समलङ्कृतं निजकुलं किं वा बहु ब्रूमहे
ये दृष्टाः परमेश्वरेण भवता तुष्टेन रुष्टेन वा ॥१४०४॥

जयादित्यस्य । (सु।र। १४१०, शा।प। १२२४)

तेषां द्वारि द्विरदपतयस् तद्वशा विश्वधात्री
तद्गेहिन्यस् तरलिततुलाकोटिसौधा नटन्ति ।
हेमच्छत्रच्छुरितहरितो भूतयस् तान् भजन्ते
येषु प्रीत्या भवति भवतो दृष्टिपातप्रसादः ॥१४०५॥

कस्यचित् ।