००४ गुणः

आबाल्याधिगमान् मयैव गमितः कोटिं पराम् उन्नतेर्
अस्मत्सङ्कथनेन पार्थिवसुतः सम्प्रत्य् असौ लज्जते ।
इत्थं खिन्न इवात्ययेन यशसा दत्तोऽवलम्बोऽम्बुधेर्
यातस् तीरतपोवनानि भवतो वृद्धो गुणानां गणः ॥१३८६॥

श्रीहनूमतः । (सु।र। १४३३, सू।मु। ९७।१४)

सूर्यो धामवतां न किं न किम् अयं प्रह्लादकश् चन्द्रमा
गम्भीरो न किम् अम्बुधिः क्षितिभृतां रामः स जेता न किम् ।
किं त्व् एकैकगुणस्तुतौ न हि वयं शक्तास् तद् एतद्गण
श्रोत्ट्णां सुमहोत्सवाय नृपते त्वाम् एकम् एव स्तुमः ॥१३८७॥

च्छित्तिपस्य ।

एते शारदकौमुदीकुलभुवः क्षीरोदधेः सोदराः
शेषाहेः सुहृदो विनिद्रकुमुदश्रेणीमहःस्राविणः ।
शीतांशोः सहपांशुखेलनसखाः स्वःसिन्धुसम्बन्धिनः
प्रालेयाचलबन्धवस् तव गुणाः कैर् नेह कर्णार्पिताः ॥१३८८॥

हरेः ।

देवस्य त्रिपुरारिहासमहसि प्रस्तूयमाने गुणे
प्रीत्या च श्रुतिकौतुकेन च बलाद् आकृष्यमाणः स्वयम् ।
एकं सन्नतपक्ष्म पन्नगपतिर् धत्ते सहस्रं दृशाम्
अन्यन्मन्थरतारकाविलुठनाद् अत्यन्तविस्फारितम्॥१३८९॥

कस्यापि ।

मेरुर् दण्डो यदि च पटलं मेदिनीमण्डलं स्याच्
छेषः सूत्रं समधरणम् अप्य् एष विन्ध्यो महीध्रः ।
तन् माता च त्रिपुरविजयी केशवो वा यदा स्याद्
उन्मीयेत क्षितिपतनय त्वद्गुणानां समूहः ॥१३९०॥

प्रवरसेनस्य ।