००२ सम्मुखचाटुः

पूर्वः कृतात्मनाम् असि भग्नानां समिति पश्चिमो द्विषताम् ।
त्वं दक्षिणः प्रणमतां तथापि सर्वोत्तरस् त्वम् असि ॥१३७६॥

योगेश्वरस्य ।

यस्य द्वीपं धरित्री स च जलधिर् अभूद् यस्य गण्डूषतोयं
तस्याश्चर्यैकमूर्तेर् अपि नभसि वपुर् यत्र दुर्लक्ष्यम् आसीत् ।
तत्पीतं त्वद्यशोभिस् त्रिभुवनम् अभजंस् तानि विश्रामहेतोस्
तच् चान्तः कैटभारेः स च तव हृदये वन्दनीयस् त्वम् एव ॥१३७७॥

तथागतदासस्य । (सु।र। १३८९)

न लोपो वर्णानां न खलु परतः प्रत्ययविधिर्
विकारो नास्त्य् एव क्वचिद् अपि न भग्नाः प्रकृतयः ।
गुणो वा वृद्धिर् वा सततम् उपकाराय जगतां
मुनेर् दाक्षीपुत्राद् अपि तव समर्थः पदविधिः ॥१३७८॥

शब्दार्णवस्य । (सु।र। १३८७)

त्वं षाड्गुण्यजुषां शिरोमणिर् असि त्रैगुण्यमूर्तेर् असाव्
इन्दुस् तत्र च षोडश त्वयि चतुःषष्ठिर् वलन्ते कलाः ।
तस्यैकं ननु मण्डलं तव नव क्ष्मामण्डलीसिद्धयस्
तेजश् चन्द्रमसो नृचन्द्र भवतश् चैवं दवीयोऽन्तरम् ॥१३७९॥

लङ्गदत्तस्य ।

पीयूषं विषम् अप्य् असूत जलधिः कान्तेः कलङ्कस्य च
स्थानं शीतरुचिः स्वभावकठिनो दाता च कल्पद्रुमः ।
अक्षीणप्रणयामृतस्य कलुषैर् अपृष्टमूर्तेर् असं
क्षिप्तत्यागरसोदयस्य भवतः साम्यं समभ्येतु कः ॥१३८०॥

शरणदेवस्य ।