स्वामिन्न् अम्बुजनाथ धूर्जटिशिरश्चूडामणे चन्द्रमः
पादौ वां प्रणतोऽस्मि साधु वदतं क्षत्रप्रसूती युवाम् ।
राजा यद्य् उपसेविताङ्घ्रिर् अखिलक्ष्मापालचूडाशतैर्
आसीद् अस्ति भविष्यति क्षितितले श्रीभोजदेवोपमः ॥१३७१॥
छित्तिपस्य ।
कालिन्दि ब्रूहि कुभोद्भवजलधिर् अहं नाम गृह्णासि कस्माच्
छत्रोर् मे नर्मदाहं त्वम् अपि वदसि मे नाम कस्मात् सपत्न्याः ।
मालिन्यं तर्हि कस्माद् अनुहरसि मिलत्कज्जलैर् मालवीनां
बाष्पाम्भोभिः किम् आसां समजनि कुपितः कुन्तलक्षोणिपालः ॥१३७२॥
तस्यैव ।
दृप्तोद्दामकरीन्द्रवृन्दशितिमच्छायेषु नारार्थिषु
पाथोदेषु तटाभिधातदिक्सादारभ्य नस् ताम्यति ।
नूनं मालवराजदिग्जयविधौ तैः पीतम् अम्भोनिधेर्
माद्यद्गन्धगजस्रवन्मदनदीगन्धानुबिद्धं पयः ॥१३७३॥
तस्यैव ।
आवाचां व्यक्ततायाः कविपदविषयेष्व् आचचष्टे समन्यो
मुक्तास्माभिर् न कोऽपि स्मरपदम् अवनौ संस्तुतः सत्यम् एतत् ।
मिथयितद् भोः कथं रे ननु शतम् अकृथाः कुन्तलेन्द्रस्य तत् तत्
काव्यस्तोत्राणि धिक् त्वां जडमय न मनोर् एव मूर्तिप्रभेदः ॥१३७४॥
उमापतिधरस्य ।
क्रूरे कद्रु किम् आत्थ दासि विनते मुक्तास्मि दत्त्वामृतं
तेनानायि सुधा मुधा तृणलिहो नागास् त्वया वञ्चिताः ।
त्वत्पापैर् मुसिताः सुताः शृणु तृणं दत्त्वाद्य यावन् मुखे
बङ्गक्ष्मापतिसङ्गरेऽपि यद् अमी जीवन्ति भूमीभुजः ॥१३७५॥
आचार्यगोपीकस्य ।