००० चाटुप्रवाहवीचयः

चाटुः सम्मुखचाटुर् विद्यागुणधर्मरूपम् अथ दृष्टिः ।
भुजकरचरणं प्रेयोऽभिधानम् अत्युक्तिचित्रोक्ती ॥१॥
अपि कार्यगती देशाश्रयौ च दानं दरिद्रभरणं च ।
अतिदानम् अपि च विक्रमपौरुषशौर्यप्रतापतेजांसि ॥२॥
गजवाजिनावनीकं खड्गोद्भुतखड्गकुपितकृपाणौ ।
चापं प्रयाणभोगावलितूर्यस्वानसैनिकरजांसि ॥३॥
अश्वरजोरणधूलिर् युद्धं युद्धस्थली च दिग्विजयः ।
रिपुरिपुनगरीसम्भ्रमवैरिवधूवैरियोषिदश्रूणि ॥४॥
अरिनगरवैरिभवने यशसा वीर्यं यशः प्रशस्तयशः ।
कीर्तिः सवीर्यकीर्तिः प्रशस्तकीर्तिश् च कीर्तिगीतिश् च ॥५॥
उच्चावचं चतुर्भिर् युतया पञ्चाशताथ वीचीनाम् ।
श्रीधरदासेन कृतः कृतिना चाटुप्रवाहोऽयम् ॥६॥