द्वारं गृहस्य पिहितं शयनस्य पार्श्वे
वह्निर् ज्वलत्य् उपरि तूलपटो गरीयान् ।
अङ्केऽनुकूलम् अनुरागवशात् कलत्रम्
इत्थं करोति किम् असौ स्वपतस् तुषारः ॥१३६१॥
बाणस्य । (स्व् १८५३, शा।प। ३९४०)
उष्मायमाणस्तनमण्डलीभिर्
वाराङ्गनाभिः स्फुटविभ्रमाभिः ।
आलिङ्गिता रात्रिषु शैशिरीषु
ते शेरते यैः प्रणतो शशाङ्कः ॥१३६२॥
कस्यचित् ।
मसृणघुसृणालेपस् तल्पं मरालतनूरुहैः
कुवलयदृशां गाढाश्लेषो विधूम् अहुताशनः ।
शिशिरसमये यद्य् एतानि प्रयान्ति सहायतां
सुरपतिपदारोहे वाञ्छा मनस् तव लाञ्छनम् ॥१३६३॥
शङ्करस्य ।
सद्यो धूपितम् उत्प्रदीपम् अभितः संरुद्धवातायनं
शुभ्रं वेश्म मरालपक्ष्ममृदुला शय्या सचन्द्रातपा ।
अङ्के कुङ्कुमपिञ्जरा च रमणी पूगं मुखे नूतनं
स्याच् चेतद् विधिवञ्चितः स्पृहयति प्रावारभाराय कः ॥१३६४॥
विरिञ्चेः ।
चूडागर्भनिवेशिदामविकलं मुक्ताफलैर् भूषणैः
स्त्रीणां कुङ्कुमपिच्छिलाः स्तनभुवो गूढोदरं मन्दिरम् ।
द्वित्रास् तूलपटाः प्रसर्पदगुरुग्रामाश् च धूमोद्गमाः
सम्भोगाय भवन्ति चात्र कृतिनां दीप्ता विशालाग्नयः ॥१३६५॥
राजशेखरस्य । (बा।रा। ५।३६)