माषीणं मुषितं यवेषु यवसश्यामच्छविः शीर्यते
ग्रामान्ताश् च मधूकधूसरभुवः स्मेरं यवानीवनम् ।
पुष्पाढ्याः शतपुष्पिकाः फलभृतः सिद्ध्यन्ति सिद्धार्थकाः
स्निग्धाः वास्तुकवास्तवः स्तवकितस्तम्बा च कुस्तुम्बरी ॥१३५६॥
शुभाङ्कस्य । (सु।र। ३२१, शुभाङ्गस्य)
सिद्धार्थाः फलसूचिबन्धगुरुभिर् लोलन्त्य् अमी पल्लवैर्
उच्छिन्दन्त्य् अध एव बन्धुरतया कोलीफलान्य् अर्भकाः ।
पाकप्रश्लथपत्रकोषदलनव्यक्ताङ्कुरग्रन्थयो
निष्ठीवन्त्य् अपि हस्तयन्त्रकलिताः पुण्ड्रेक्षयष्ट्यो रसम् ॥१३५७॥
वाचस्पतेः (सु।र। ३१६)
ईषल्लोमशभावभाञ्जि कपिशश्यामानुबन्धच्छवी
लिप्तत्वञ्चि चकोरकीरहरितोन्मेषीणि माषीलताः ।
एतास् तर्कय बालवानरवधूहस्ताङ्गुलीलब्धिम
स्पर्धावन्ति फलानि बिभ्रति परीणामाभिरामश्रियः ॥१३५८॥
वसुकल्पदत्तस्य
सिद्धार्थयष्टिषु यथोदयहीयमान
सन्तानबद्धफलसूचितपरम्परासु ।
विच्छिद्यमानकुसुमासु जनिक्रमेण
पाकक्रमः कपिशिमानम् उपादधाति ॥१३५९॥
लक्ष्मीधरस्य । (सु।र। ११८४, कस्यचित्)
यवानीवल्लीभिः कपिशहरिताभिर् दिशि दिशि
श्रयन्ते सीमानः किम् अपि कमनीयत्वम् अधुना ।
प्रथन्ते प्लक्षाणाम् अपि च कुटिलाः काननभुवां
विलीनाशाबन्धाः शुकशिशुकतुण्डच्छविमुषः ॥१३६०॥
भूषणस्य ।