१७६ शिशिरग्रामः

आभोगिनः किम् अपि सम्प्रति वासरान्ते
सम्पन्नशालिफलपल्लवितोपशल्याः ।
ग्रामास् तुषारभरबन्धुरगोमयाग्नि
धूमावलीवलयमेखलिनो हरन्ति ॥१३५१॥

अभिनन्दस्य । (सु।र। ३०३)

उद्वेगं जनयन्ति सञ्चितवृषव्याप्ताजिरोपान्तकाः
प्रातः शीर्णकुटीरपुञ्जितलताशिम्बीतुषाराविलाः ।
ग्रामा गोमयधूमसन्ततिपरिक्लिष्टारुणश्मश्रुभिर्
वृद्धैः कुड्यनिवातलीननिभृतैर् अभ्यर्थ्यमानातपाः ॥१३५२॥

योगेश्वरस्य ।

शालिच्छेदसमृद्धहालिकगृहाः संसृष्ट=नीलोत्पल
स्निग्धश्यामयवप्ररोहनिविडव्यादीर्घसीमोदराः ।
मोदन्ते परिवृत्तधेन्वनडुहच्छायाः पलालैर् नवैः
संसक्तध्वनदिक्षुयन्त्रमुखरा ग्रामा गुडामोदिनः ॥१३५३॥

कस्यचित् ।

जातोक्षोत्सुकगृष्टिभीषितशिशुत्रासार्तनारीगणाः
खिन्नास्तीर्णनवीनशालिसुरभिस्फीतोपलिप्ताजिराः ।
नेदीयः खलमृद्यमानमृदितस्तूपीकृतव्रीहयः
पान्थप्रार्थ्यपलालगोपनपराः प्रायोऽद्य पल्लीगृहाः ॥१३५४॥

विरिञ्चेः ।

सीमान्तास् तुहिनागमे हलहतव्यासर्पित्शस्याटवीन्
अष्टप्रावरणा यवाङ्कुरचयं रोमाञ्चवद् बिभ्रति ।
ग्रामाः शालिपलालपिङ्गलखलप्रान्तज्वलत्पावक
प्रोद्यन् मांसलधूमकम्बलम् अलं शीतालवो भेजिरे ॥१३५५॥

पियाकस्य ।