१७६ हेमन्तहालिकः

लघुनि तृणकुटीरे क्षेत्रकोणे यवानां
नवकलमपलालस्रस्तरे सोपधाने ।
परिहरति सुषुप्तं हालिकद्वन्द्वम् आरात्
स्तनकलशमहोष्माबद्धरेखस् तुषारः ॥१३३६॥

भवभूतेः (द।रू। ४।२२, स्व् १८४०, सु।र। २९९, शा।प। ३९२२, सू।मु। ६३।१५)

इदानीम् अर्घन्ति प्रथमकलमच्छेदमुदिता
नवीनान्धस्थालीपरिमलमुचो हालिकगृहाः ।
उदञ्चद्दोर्लीलारणितवलयाभिर् युवतिभिर्
गृहीतप्रोत्क्षिप्तभ्रमितमसृणोद्गीर्णमुसलाः ॥१३३७॥

योगेश्वरस्य । (सु।र। ३१४)

भद्रं ते सदृशं यदध्वगशतैः कीर्तिस्तवोद्गीयते
स्थाने रूपम् अनुत्तमं सुकृतिना दानेन कर्णो जितः ।
इत्य् आलोक्य चिरं दृशा कृपणया दूरागतेन स्तुतः
पान्थेनैकपलालमुष्टिरुचिना गर्वायते हालिकः ॥१३३८॥

तस्यैव (स।क।आ। ३।८, सु।र। ३०५, शा।प। ५८१, सू।मु। ९६।२)

आहूतो हालिकेनाश्रुतम् इव वचनं तस्य कृत्वा क्षणैकं
तिष्ठासुस्तब्धरोमा कथम् अपि विटपं निःसमीरं विहाय ।
दोर्भ्याम् आवृत्य वक्षःस्थलम् अलसगतिर् दीनपादप्रचारः
शीत्कारोत्कम्पभिन्नस्फुटदधरपुटः पामरः क्षेत्रम् एति ॥१३३९॥

कस्यचित् ।

क्षेत्रोपान्तपलायमानशशकद्वन्द्वं निरीक्ष्यापरान्
आहूयातिरसेन कर्षकजनान् आरब्धकोलाहलाः ।
हस्तावापितदात्ररज्जुलगुडैर् वृद्धैर् अवृद्धैः सह
त्यक्त्वा शालिचिकर्तिषाम् इत इतो धावन्त्य् अमी पामराः ॥१३४०॥

कस्यचित् । (सु।र। ३००)