१७५ शिशिरः

धन्यानां वरपूरितमुखश्यामाङ्गनालिङ्गन
प्राप्तानेकसुखप्रमोदवपुषां रम्यस् तुषारोद्गमः ।
अस्माकं तु विदीर्णखण्डितपटप्रच्छादितोद्घाटित
क्रोडस्वीकृतजानुवेपथुमतां चेतः परं सीदति ॥१३४६॥

कस्यचित् । (सु।र। ३१२)

विरहिवनितावक्त्रौपम्यं बिभर्ति निशापतिर्
गलितविभवस्याझेवाद्य द्युतिर् मसृणा रवेः ।
अभिनववधूरोषस्वादुः करीषतनूनपाद्
असरलजनाशेल्षक्रूरस् तुषारसमीरणः ॥१३४७॥

भासस्य । (सु।र। ३१७, अभिनन्दस्य)

एते वामविलोचनाकुचसखैः सोढव्यशीतार्तयः
प्राप्ताः पश्चिमसैन्धवस्य मरुतः प्रेमच्छिदो वासराः ।
यत्रापास्य पुराणपङ्कजमयं देवः सशृङ्गारभूर्
आदत्ते नवकुन्दकुड्मलशिखानिर्माणम् अन्यद् धनुः ॥१३४८॥

प्रभाकरस्य

कम्पन्ते कपयो भृशं जडकृशं गोजाविकं ग्लायति
श्वा चुल्लीकुहरोदरं क्षणम् अपि क्षिप्तोऽपि नैवोज्झति ।
शीतार्तिव्यसनातुरः पुनर् अयं दीनो जनः कूर्ववत्
स्वान्य् अङ्गानि शरीर एव हि निजे निह्नोतुम् आकाङ्क्षति ॥१३४९॥

शतानन्दस्य । (स।क।आ। ३।१०, सु।र। ३१३ लक्ष्मीधरस्य, सू।मु। ६३।१७)

पाकक्षामतिलाः समुत्सुकयितुं शक्ताः कपोतान् भुवः
श्यामत्वं फलपीड्यमानकुसुमान् आपद्यते सर्षपान् ।
वायुर् व्यस्तशणस् तुषारकणवान् अभ्येति कम्पप्रदः
पान्थैः शुष्कविवादबद्धकलहैः पुण्याग्निर् आसेव्यते ॥१३५०॥

योगेश्वरस्य । (सु।र। ३१५)